Book Title: Vichar Saptatika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 105
________________ श्रीविचारसप्ततिका वृत्तिसमेता संघोवरि बहुमाणो *धम्मेिअमित्ती पभावणा तित्थे२३ । नवखित्ते ३२धणववणं 'पुत्थयलिहणं विसेसेण३३ ॥७०॥ परिगहमाणा३४ ऽभिग्गहरे५ इक्कारससङ्कपडिमफासणया । सव्वविई ३०मणोरह एमाई सड्डकिच्चाई ॥७१॥ स्पष्टम् ।। ६७-६८-६९-७०-७१ ॥ अथ चतुर्दशगुणस्थानद्वारं द्वादशमाहअह चउदससु गुणेसुं कालपमाणं भणामि दुविहंपि १ । न मड् मड़ २ व जेसुं सह परभवु जेहिँ ३ नो जेहिं ॥७२॥ तत्रापि प्रतिद्वाराणि चत्वारि । तद्यथा-अथ चतुर्दशगुणस्थानकेषु "दुविहंपि" इति द्विविधमपि जघन्यमुत्कृष्टं च स्थितिकालप्रमाणम् १ । तथा येषु गुणस्थानकेषु वर्तमानो जीवो म्रियते न म्रियते वेति तत्स्वरूपम् २ । तथा यैर्गुणस्थानैः सह जीवः परभवगामी स्यात्, यैश्च न स्यात् ३ । तथा गुणस्थानकानामल्पबहुत्वम् ४ । एतद्गुणस्थानप्रतिद्वारचतुष्कं भणिष्यामि ॥७२।। तत्र प्रथमं प्रतिद्वारं व्याचिख्यासुर्मिथ्यात्वस्थितिकालभेदानाहमिच्छं अणाई ऽनिहणं अभव्वे भव्वे वि सिवगमाजुग्गे। सिवगइ अणाइसंतं साईसंतंपि तं एवं ॥७३॥ अनाद्यनन्तः १, अनादिसान्तः २, साद्यनन्तः ३ सादिसान्तः ४ एतेषु चतुर्यु भेदेषु मिथ्यात्वमनाद्यनिधनमित्यनाद्यनन्तं अभव्ये भवति । भव्येऽपि शिवगमायोग्ये मुक्तिगमनानé । एतावता भव्याभव्येऽप्यनाद्यनन्तमिति प्रथमो भङ्गः १ । तथा मोक्षगमने च योग्यस्य भव्यस्यानादिसान्तं आदिरहितमन्तसहितमित्यर्थः । यथा कश्चिज्जीवः सम्यक्त्वं प्राप्यावान्त्वैव मोक्षं याति. मरुदेवीभगवतीवदिति द्वितीयो भङ्गः २ । कस्यचिन्मिथ्यात्वं सादिसान्तमपि, ___★ "पुत्थयलिहणं" इति प्रत्यन्तरे । • इतः परं “सामाइयमुभयकालंमि" इति पुस्तकान्तरे॥

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110