Book Title: Vichar Saptatika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust
View full book text
________________
९३
श्रीविचारसप्ततिका वृत्तिसमेता उपशान्तिजिना उपशान्तमोहवर्तिनः, उत्कर्षत एकसमयप्रतिपद्यमानकाश्चतुष्पञ्चाशतो लभ्यमानत्वात् । तेभ्यः क्षीणमोहाः सङ्ख्येयगुणाः, तेषां प्रतिपद्यमानकानामेकसमयेऽष्टोत्तरशतसङ्ख्यत्वात् । एतदुत्कृष्टपदापेक्षं, अन्यथा विपर्ययोऽपि, यथा-सर्वस्तोकाः क्षीणमोहाः, तेभ्य उपशान्तमोहाः सङ्ख्येयगुणा इत्यपि । तेभ्यः सूक्ष्मानिवृत्त्यपूर्वकरणास्त्रयोऽपि विशेषाधिकाः । स्वस्थाने मिथस्तुल्याः ॥७९॥
जोगि अपमत्त इयरे संखगुणा देस सासणा मिस्सा । अविरयं अजोगि मिच्छा चउर असंखा दुवे णंता ॥४०॥
एतेभ्यः सयोगिकेवलिनः सङ्ख्येयगुणाः, कोटीपृथक्त्वेन तेषां प्राप्यमाणत्वात् । तेभ्योऽप्रमत्ताः सङ्ख्येयगुणाः, कोटीसहस्रपृथक्त्वेन प्राप्यमाणत्वात् । तेभ्य इतरे प्रमत्ताः सङ्ख्येयगुणाः, प्रमादवतां बहूनां बहुकालं च लभ्यमानत्वात् । तेभ्यो देशविरताः सास्वादनाः मिश्रा अविरताश्च प्रत्येकमसङ्ख्येयगुणाः, देशविरतिभाजां तिरश्चामसङ्ख्येयत्वात् । सास्वादनास्तुकदाचिन्न भवन्त्येव । यदि च स्युस्तदा जघन्यत एको द्वौ वा उत्कर्षतो देशविरतेभ्योऽसङ्ख्येयगुणाः । तेभ्यो मिश्रा असङ्ख्येयगुणाः, सास्वादनस्य षडावलिकारूपाद्धाया आन्तौहूर्तिकमिश्राद्धायाः प्रभूतत्वात् । तेभ्योऽविरता असङ्ख्येयगुणाः, तेषां चतुर्गतिकानामपि भावात् । “अजोगि" इति अविरतेभ्योऽयोगिनो भवस्थाभवस्थभेदभिन्ना अनन्तगुणाः, सिद्धानामानन्त्यात् । तेभ्यो मिथ्यादृष्टयोऽनन्तगुणाः, तत्रानन्तवनस्पतिकायप्रक्षेपात्, तेषां मिथ्यादृष्टित्वात् । गतं चतुर्थं प्रतिद्वारं, तेन कथनेन द्वादशं गुणस्थानद्वारं व्याख्यातम् ।।८०॥
अथोपसंहारमाहचउदसगुणसोवाणे इअ दुहरोहे कमेण रुहिऊणं । नरसुरमहिंदवंछियसिवपासाए सया वसह ॥८१॥ इत्यमुना प्रकारेण अहो भव्याश्चतुर्दशगुणस्थानरूपसोपानानि गुरुकर्म

Page Navigation
1 ... 106 107 108 109 110