Book Title: Vichar Saptatika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust
View full book text
________________
८८
श्रीविचारसप्ततिका वृत्तिसमेता सहसोगाढा चउसट्ठिसहस्सुच्चा दससहस्स पिहुला य । सव्वत्थ समा पल्लयसरिसा रुप्पामया सव्वे ॥६३॥
ते च दधिमुखपर्वता एकैकं योजनसहस्रं भूमावधोऽवगाढाः । बहिश्चतुःषष्टियोजनसहस्राणि उच्चाः । दशसहस्रयोजनानि सर्वत्र पृथुलाः । तेनोर्ध्वमध्याधस्तुल्यविस्ताराः । अत एव पल्यसदृशाः पल्यको धान्यकोष्ठकः तत्संस्थानसंस्थिताः । तथा रूप्यात्मका: सर्वात्मना श्वेता इत्यर्थः । वापीनामानुसारेण तेषां षोडशदधिमुखानां नामान्यप्यवसेयानि ॥६३।।
अथाञ्जनदधिमुखपर्वतेषु विशेषमाहअंजणदहिमुहचेइअ वीसं चउदार दीपिहुउच्चा। सयपन्ना बावत्तरि जोअण ठाणंगि जिअभिगमे ॥६४॥
अञ्जनपर्वतेषु दधिमुखेषु च षोडशसु प्रत्येकमेकैकचैत्यसद्भावात् सर्वाणि चतुर्वाराणि विंशतिश्चैत्यानि सन्ति । अन्येषां तु मते द्वात्रिंशद्रतिकरपर्वतेष्वेकैकचैत्यसद्भावात् द्वापञ्चाशच्चैत्यानि । तानि सिद्धायतनानि पूर्वपश्चिमतः शतयोजनदीर्घाणि दक्षिणोत्तरतः पञ्चाशद्योजनविस्तीर्णानि द्वासप्ततियोजनोच्चानि । प्रतिद्वारं च मुखमण्डप १ प्रेक्षामण्डप २ चैत्यस्तूप ३ चैत्यवृक्ष ४ महेन्द्रध्वज ५ पुष्करिण्यः ६ एते षट् पदार्थाः सन्ति । मुखमण्डपप्रेक्षामण्डपौ शतयोजनदीघौं, पञ्चाशदा(द्योजना)यामौ, षोडशयोजनोच्चौ । चैत्यस्तूपं षोडशयोजनायामविस्तारम् । चैत्यवृक्षमहेन्द्रध्वजयोः पीठिके अष्टयोजनायामविस्तारे । ता अपि पुष्करिणीवाप्यो योजनशतायामविस्ताराः, दशयोजनोद्वेधाः । तासूपरितनवापीषु प्रज्ञापनातृतीयपदवृत्त्युक्तत्वेन मत्स्याद्याः सन्ति । चैत्यवृक्षेन्द्रध्वजयोः प्रमाणं जीवाभिगमोपाङ्गादवधार्यम् । इति विंशतिसिद्धायतनस्वरूपं स्थानाने जीवाभिगमे चोक्तमस्ति ॥६४॥
अथ रतिकरपर्वतवक्तव्यतामाहनंदी विदिसिं चउरो दसिगसहस्सापिहुच्चपाओहे। झल्लरिसरिस अचेइअ रइकर ठाणंगि सुत्तंमि ॥६५॥

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110