Book Title: Vichar Saptatika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 95
________________ श्रीविचारसप्ततिका वृत्तिसमेता अथ कृष्णराजीस्वरूपमष्टमं द्वारमाहबंभे रिढे तइअंमि पत्थडे अट्ठ कण्हराईओ। इंदय चउसु दिसासुं अक्खाडगसंठिआ दिग्घे ॥४७॥ ब्रह्मलोकनामकः पञ्चमः कल्पः । तत्रापि तृतीये रिष्टाभिधाने प्रस्तटेऽष्टौ कृष्णराज्यो भवन्ति सचित्ताचित्तपृथ्वीपरिणामरूपा भित्त्याकारव्यवस्थिताः । किमाकारा इत्याह-तृतीयरिष्टाभिधानप्रस्तटगतेन्द्रकविमानाच्चतसृषु दिक्षु द्वे द्वे कृष्णराज्यौ स्तः । तथाहि-पूर्वस्यां दक्षिणोत्तरायते तिर्यग्विस्तीर्णे । एवं हि दक्षिणस्यां पूर्वापरायते । अपरस्यां दक्षिणोत्तरायते । उत्तरस्यां पूर्वापरायते । सर्वा अष्टौ । कीदृश्यः ? आखाटकसंस्थानसंस्थिताः आखाटको नाम प्रेक्षास्थाने आसनविशेषः प्रज्ञप्तिटीकायां तथैव व्याख्यानात् । दीर्घ इति दीर्घत्वे ताः कियत्प्रमाणाः ? ॥४७॥ तदाहजोअणअसंख पोहत्ति संख ईसाणि 'अच्चि अच्चिमाली। वइरोअणं "पहंकर चंदाभं सूरिअ "सुकाभं ॥४८॥ “सुपइट्टाभं रिलु मज्झे वढं बहिं विचित्तटुं । तेसिं पहू सारस्सयपमुहा तद्दुदुगपरिवारा ॥४९॥ सत्तसय सत्त चउदस सहसा चउदहिअ सगसहससत्त । नव नवसय नव नवहिअ अव्वाबाहागिच्चरितुसु ॥५०॥ दीर्घ इति लम्बत्वेऽसङ्ख्यातयोजनसहस्रा भवन्ति । “पोहत्ति" पृथुलत्वे विष्कम्भत्वे तु सङ्ख्यातयोजनसहस्राः । परिक्षेपे त्वसङ्ख्यातयोजनसहस्राः । महत्त्वं चासां यो देवो महद्धिको यया गत्या तिसृभिश्चपुटिकाभिरेकविंशतिवारान् सकलमपि जम्बूद्वीपं समवृत्त्या गच्छेत्, स एव देवस्तया गत्याऽर्द्धमासेनैकां व्यतिव्रजेत् नेतरामिति । तासां कृष्णराजीनामन्तराले किमस्तीत्याह-ईसाणि' इति एतासां कृष्णराजीनामीशानादिषु दिक्षु विदिक्ष्वष्टस्वप्यन्तरेषु राजीद्वयमध्य

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110