Book Title: Vichar Saptatika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 94
________________ श्रीविचारसप्ततिका वृत्तिसमेता ७९ औदारिकवैक्रियाहारकशरीरेषु प्रत्येकं प्रत्येकं युगपत्समकालं षण्णां पर्याप्तीनां प्रारम्भो भवतीति स्थितिः निष्ठां च क्रमादुपयान्ति । यथाप्रथममाहारपर्याप्तिस्ततो द्वितीया शरीरपर्याप्तिः, तत इन्द्रियपर्याप्तिरित्यादयः सर्वा ज्ञेयाः । तासां मध्ये प्रथमैकाहारपर्याप्तिः शरीरत्रिकेऽप्येकसामयिकी भवति । एकसमयेनौजआहाररूपपर्याप्तिः समाप्ति यातीत्यर्थः । द्वितीया शरीरपर्याप्तिः त्रिष्वेव शरीरेष्वन्तर्मुहूर्तप्रमाणा ॥४४॥ ___ अथ शेषपर्याप्तीनामौदारिकशरीरे एव गाथापूर्वार्धेन, अन्त्यार्थेन च वैक्रियाहारकयोः कालप्रमाणमाह पिहु पिहु असंखसमइअ अंतमुहुत्ता उराल चउरोऽवि । पिहु पिहु समया चउरोऽवि हुंति वेउव्विआहारे ॥४५॥ तृतीया चतुर्थी पञ्चमी षष्ठी चैताश्चतस्रोऽपि पर्याप्तयः पृथक् पृथक् औदारिके शरीरेऽसङ्ख्यातसमयात्मकान्तर्मोहूर्तिक्यो भवन्ति । सर्वा अपि वृद्धान्तर्मुहूर्तेन परिपूर्णा भवन्तीति पूर्वार्धार्थः । तथा 'चउरोऽवि' इति वैक्रियाहारकशरीरयोस्तु तृतीयाप्रमुखाश्चतस्रोऽपि पृथक् पृथक् एकैकसमयेन एकैका पूर्णा भवतीत्यर्थः । यथा एकेन समयेन इन्द्रियपर्याप्तिः, द्वितीयेनोच्छासपर्याप्तिः, तृतीयेन समयेन वचनपर्याप्तिः, चतुर्थेन समयेन च मनःपर्याप्तिः ॥४५॥ एवं मनुष्यतिरश्चोः प्रोक्ता अथ देवनैरयिकेष्वाहछन्हावि सममारंभे पढमा समएऽवि अंतमोहुत्ती । ति तुरिअ समए समए सुरेसु पण छ8 इगसमए ॥४६॥ सुरनैरयिकेषु षण्णां पर्याप्तीनां युगपत्प्रारम्भेऽपि प्रथमा ओजाहाररूपा एका पर्याप्तिरेकेन समयेन परिपूर्णा भवति । द्वितीया शरीरपर्याप्तिरप्यान्तर्गौहूर्तिकी । तृतीया चतुर्थी च पर्याप्तिः पृथक् पृथक् एकैकेन समयेन भवति । तथा पञ्चमी वचनपर्याप्तिः षष्ठी मनःपर्याप्तिश्चोभे अप्येकस्मिन् समये एव भवतस्तथास्वाभाव्यात् । उत्तरवैक्रियं देवनारकाणामपीत्थमेव ॥४६॥ गतं पर्याप्तिद्वारं सप्तमम् ॥

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110