Book Title: Vichar Saptatika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 93
________________ श्रीविचारसप्ततिका वृत्तिसमेता 'आहारंसरीरिंदियऊसासवेओर्मणो छ पज्जत्ती । 'चउ पंच' पंच' "छप्पिअ 'इगविगलाऽमणसमणतिरिए ॥ ४२ ॥ ७८ गब्भयमणुआणं पुण छप्पि अ पज्जत्ति पंच देवेसु । जं तेसिं वयमणाण दुवेऽवि पज्जत्ति समकालं ॥४३॥ पर्याप्तिराहारादिपुद्गलग्रहणपरिणमनहेतुरात्मनः शक्तिविशेषः । सा च पुद्गलोपचयादुपचीयते । ताश्च षट् । तत्र यया शक्त्या करणभूतया जन्तुः आहारमादाय खलरसरूपतया परिणमयति सा आहारपर्याप्तिः १ । यया रसीभूतमाहारमौदारिकवैक्रियाहारकशरीरत्रययोग्यपुद्गलरूपं रसासृग्मांसमेदोऽस्थिमज्जाशुक्र (रूप)सप्तधातुतया यथासम्भवं परिणमयति सा शरीरपर्याप्तिः २। यया धातुरूपतया परिणमितादाहारादेकस्य द्वयोस्त्रयाणां चतुर्णां पञ्चानां चेन्द्रियाणां योग्यान् पुद्गलानादाय स्वस्वेन्द्रियरूपतया परिणमय्यालम्ब्य च स्वस्वविषयं परिज्ञातुं प्रभुर्भवति सेन्द्रियपर्याप्तिः ३ । ययोच्छ्वासनिःश्वासयोग्यं दलिकमादाय तथा परिणमय्यालम्ब्य च निःस्रष्टुं समर्थो भवति सा पुनः प्राणपर्याप्तिः ४ । यया भाषायोग्यं दलिकमादाय भाषात्वेन परिणमय्यालम्ब्य च मुञ्चति सा भाषापर्याप्तिः ५ । यया मनोवर्गणादलिकमादाय मनस्त्वेन परिणमय्यालम्ब्य च मनःसमर्थो भवति सा मनः पर्याप्तिः ६ । एतास्वेकेन्द्रियाणामाद्याश्चतस्रः । विकलेन्द्रियाणां भाषासहिताः पञ्च । अमनस्कानामिति सम्मूच्छिमपञ्चेन्द्रियतिरश्चां ता एव पञ्च। समनस्कानामिति गर्भजतिरश्चां मनः सहिताः षट् ॥४२॥ गर्भजमनुष्याणां पुनः षडपि पर्याप्तयः । सम्मूर्छिममनुष्याणां त्वपर्याप्तत्वेन मरणं भवति, (तत: ) तेषामाद्यत्रिकं सम्भवति, करणापर्याप्तत्वेन सर्वेषां अपर्याप्तानां जीवानां मरणासम्भवात् । देवनारकेषु पञ्च, यतस्तेषां वचोमन: पर्याप्ती द्वे अपि समकालं भवतस्तेन पञ्च ॥४३॥ अथाद्यत्रिषु शरीरेषु सर्वपर्याप्तिकालप्रमाणं विवक्षुराह— उरालविउव्वाहारे छन्हऽवि पज्जत्ति जुगवमारंभो । तिन्हऽवि पढमिगसमए बीआ पुण अंतमोहुत्ती ॥४४॥

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110