Book Title: Vichar Saptatika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 91
________________ ७६ श्रीविचारसप्ततिका वृत्तिसमेता अथ मकरसङ्क्रान्तौ यदवशिष्यते तदाहइगतीससहस अडसय इगतीसा तह य तीससटुंसा । मयरे रविरस्सीओ पुव्ववरेणं अह उदीणे ॥३८॥ सर्वाभ्यन्तरान्मण्डलादहिनिष्क्रामन् सूर्यः क्रमेण करप्रसरेण हीयमानः सर्वबाह्यमण्डलमागच्छति, तत्र चैकत्रिंशत्सहस्राण्यष्टौ शतान्येकत्रिंशदधिकानि, त्रिंशच्चैकषष्टिभागा योजनस्य ३१,८३१ ३०/३१ । एतावत्प्रमाणो मकरे पूर्वस्यामपरस्यां च करप्रसरो भवति । पूर्वापरमीलने तद्दिनोदयास्तान्तरं जातं ६३,६६३ । अत्र प्रतिदिनं साधिकं द्विसप्ततिशतं योजनानां हानि: १७२ १०/६० १४४/१८३ प्रतिपूर्वपश्चिमयोश्च तदर्थं साधिका षडशीतिर्योजनानां ८६ ५/६० ७२/१८३ ॥३८॥ अथ मकरे उदीच्यां दक्षिणस्यां चाहलवणे तिसई तीसा दीवे पणचत्तसहस अह जम्मे । लवणम्मि जोअणतिगं सतिभाग सहस्स तित्तीसा ॥३९॥ सर्वबाह्ये मण्डले सूर्यो लवणसमुद्रे त्रिंशद्योजनाधिकां त्रिशतीमागतः, तेन लवणसम्बन्धीनि त्रीणि शतानि त्रिंशदधिकानि ३३० द्वीपसम्बन्धीनि पञ्चचत्वारिंशत्सहस्राणि ४५,००० । उभयमीलने ४५,३३० उदीच्यां करप्रसरः । 'अह जम्मे' अथ याम्ये लवणदिशि त्रयस्त्रिंशत्सहस्राणि एकयोजनस्य तृतीयभागयुतयोजनत्रयाधिकानि ३३,००३, करप्रसरः ॥३९।। अथोर्ध्वाधस्तेजःप्रसरस्वरूपमाहमयरम्मिवि कक्कम्मिवि हिट्ठा अट्ठारजोअणसयाइं । जोयणसयं च उड़े रविकर एवं छसु दिसासु ॥४०॥ मकरे इति मकरादिषु षट्सु सङक्रान्तिषु । 'कक्कम्मि' इति कर्कादिषु षट्सु सङ्क्रान्तिषु अर्थात् सर्वेष्वपि मण्डलेषु वर्तमानस्य सूर्यास्याधोऽष्टादश योजनशतानि तेजो भवति । यतः सूर्यादष्टयोजनशतेषु समभूतलम् ।

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110