Book Title: Vichar Saptatika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust
View full book text
________________
७४
श्रीविचारसप्ततिका वृत्तिसमेता तावद्विमानेषु पङ्क्तिविषयं भेदत्रयमेवास्ति । यथा केषुचिद्विमानेषु पङ्क्तिपञ्चकं भवति । केषुचित् पङ्क्तिचतुष्कं । केषुचित् पङ्क्तित्रयं । अतो हीनं चतुर्निकायेषु विमानं न भवति । तत्र पञ्चभिः पङ्क्तिभिस्त्रयोदश शतानि पञ्चषष्ट्यधिकानि प्रासादा भवन्ति । पङ्क्तित्रिकेण च पञ्चाशीतिः प्रासादाः सन्ति । चतसृभिः पङ्क्तिभिरेकचत्वारिंशदधिकानि त्रीणि शतानि । व्यत्ययो गाथाबन्धवशाज्ज्ञेयोऽत्र ॥३३॥
अथ प्रतिदिशं भेदत्रयेऽप्येकैकस्मिन् भेदे कियन्तः प्रासादा भवन्तीत्याहपणसीई एगवीसा पणसी पुण एगचत्त तिसईए। तेरससय पणसट्ठा तिसई इगचत्त पइककुहं ॥३४॥
प्रतिदिशमेकविंशत्या प्रासादैः पङ्क्तित्रिकेण पञ्चाशीतिः प्रासादाः । तथा चतसृभिः पङ्क्तिभिः प्रतिदिशं पञ्चाशीत्या प्रासादैरेकचत्वारिंशदधिकानि त्रीणि शतानि प्रासादा भवन्ति । तथा प्रतिदिशं एकचत्वारिंशदधिकया त्रिशत्या प्रासादैः सर्वमध्यवर्तिसहितैः पञ्चपङ्क्तिविमानेषु पञ्चषष्ट्यधिकानि त्रयोदशशतानि भवन्तीति स्थापनयाऽवगन्तव्यम् ॥३४॥ व्याख्यातं पञ्चमं प्रासादद्वारम् ।।
अथ किरणप्रसरद्वारं षष्ठमाह । तत्र प्रथमं सूर्यस्य पूर्वपश्चिमदक्षिणोत्तरदिग्विभागं दर्शयति
पिढे पुव्वा पुरओ अवरा वलए भमंत सूरस्स । दाहिणकरम्मि मेरू वामकरे होइ लवणोही ॥३५॥
मेरुं परितः प्रदक्षिणावर्तेन सूर्यस्य भ्रमतः पृष्ठे पूर्वा दिक्, पुरतोऽपरा पश्चिमा भवति । सूर्यस्य दक्षिणकरे मेरुः, वामकरे लवणोदधिः । एताः सूर्यस्य दिशः, न तु लोकदिशः, लोकानां सूर्यापेक्षया दिशो भवन्ति । निखिलक्षेत्रेषु तास्तापदिश उच्यन्ते । स्वाभाविकास्तु क्षेत्रदिशः, ता मेरुरुचकप्रभवा भवन्ति । रुचका अपि मेरुसर्वमध्यस्थिता अष्टौ आकाशप्रदेशाः समभूतलस्थाने गोस्तनाकाराः । तत्र चतस्रो द्विप्रदेशादयो द्व्युत्तराः शकटोद्धिसंस्थानाः पूर्वाद्या महादिशश्चतस्र एव । एकप्रदेशादयो मुक्तावलीनिभा विदिशः द्वे च चतुः

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110