Book Title: Vichar Saptatika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 88
________________ श्रीविचारसप्ततिका वृत्तिसमेता ७३ पृथुत्वादिषु । तस्य सर्वत्रापि मध्ये 'उपकारिकालयनं' पीठिकेत्यर्थः । तस्यां सर्वमध्ये प्रभोः पञ्चाशीतिः प्रासादाः १ | कुत्रापि उपकारिकालयने एकचत्वारिंशदधिकानि त्रीणि शतानि प्रासादाः २ । कुत्रापि पञ्चषष्ट्यधिकानि त्रयोदश शतानि प्रासादाः ३ । एवं भेदत्रयम् ॥३०॥ कथं वर्त्तन्ते ते प्रासादा: ? इत्याह मुहपासाओ चउदिसि चउहिं ते सोलसेहिँ सोलावि । चउसट्ठीए सावि य छप्पन्नेहिं दुहि सएहिं ॥३१॥ — तेऽवि अ पुण सहसेणं चउवीसहिएण हुंति परिअरिआ । मूलुच्चत्तपुहुत्ता अद्धद्धे पणवि पंतीओ ॥३२॥ मुख इति सर्वमध्यवर्त्तिमूलप्रासादावतंसकः । स चतसृषु दिक्षु चतुर्भिः प्रासादावतंसकैः परिवृत इति प्रथमा पङ्क्तिः । सर्वे पञ्च । तेऽपि चत्वारः प्रासादा अन्यैः षोडशभिः प्रासादैश्चतसृषु दिक्षु परिवृताः प्रत्येकं चत्वार एवेति द्वितीया पङ्क्तिः, सर्वे २१ भवन्ति । तेऽपि च षोडश प्रासादाश्चतुःषष्ट्या प्रासादैः परिवृता इति तृतीया पङ्क्तिः, सर्वे ८५ । तेऽपि चतुःषष्टिः प्रासादाः षट्पञ्चाशदधिकेन शतद्विकेन परिवृता इति चतुर्थी पङ्क्तिः, सर्वे ३४१ ॥३१॥ तेऽपि षट्पञ्चाशदधिकशतद्वयप्रासादाश्चतुर्विंशत्यधिकेन सहस्रेण परिवृता भवन्तीति पञ्चमी पङ्क्तिः, सर्वे १,३६५ । पञ्चापि पङ्क्तयो मूलप्रासादावतंसकस्योच्चत्वपृथुत्वदीर्घत्वेभ्योऽर्धार्धमाना ज्ञेयाः । किमुक्तं भवति ? यत्र मूलप्रासादावतंसः पञ्चशतयोजनमान उच्चत्वपृथुत्वाभ्यां तस्मादाद्या चतु:प्रासादरूपा या पङ्क्तिः सा सार्धद्विशतीयोजनमाना । ततो द्वितीयपङ्क्तिगतप्रासादा अर्धमाना । ततोऽप्यर्धा तृतीया पङ्क्तिः । एवमनुक्रमेण पञ्चापि भावनीयाः ||३२|| " अथ प्रतिविमानं कति प्रासादा भवन्तीत्याह तेरससय पणसट्टाइअ पणपंतीहिँ हुंति पासाया । पणसी पंतितिगेणं तिसई इगचत्त चउहिं तु ॥३३॥

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110