Book Title: Vichar Saptatika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust
View full book text
________________
७७
श्रीविचारसप्ततिका वृत्तिसमेता समभूतलापेक्षया चाधो योजनसहस्रमधोग्रामाः, ते हि जम्बूद्वीपापरविदेहे मेरोरारभ्य जगत्यभिमुखं प्रदेशप्रदेशहान्या क्षेत्रस्यातिनिम्नीभवनादन्तिमविजयद्वयस्थाने द्विचत्वारिंशद्योजनसहौः सन्ति । यदुक्तं लघुक्षेत्रविचारे
"जोयणसयदसगते समधरणीओ अहे अहोगामा ।
बायालीससहस्सेहिं गंतुं मेरुस्स पच्छिमओ ॥१॥" ततः परं योजनसहस्रत्रयं समभूतलतुल्यतया समभूभागो वर्तते । शीतोदायाः प्रवेशस्तु जयन्तद्वाराधो भूत्वा लवणाब्धावनेकयोजनसहस्राणि गत्वा च भवति । इदं चाध:करप्रसरमानं जम्बूद्वीपगतसूर्यापेक्षया एव ज्ञेयम् । द्वीपान्तरसूर्यास्त्वधोऽष्टशतानि तपन्ति, तत्क्षेत्रस्य समत्वादिति । ऊर्ध्वं तु सर्वत्र सर्वेषां सूर्याणां शतमेकं करप्रसरः, यदुक्तं भगवत्यामष्टमशतेऽष्टमोद्देशके"जम्बूदीवे णं भंते सूरिया केवइअं खित्तं उठें तवेंति ? केवइअं खित्तं अहो तवेंति ? केवइअं खित्तं तिरिअं तवेंति ? गोयमा ! एगं जोअणसयं उटुं तवेंति, हेट्ठा अट्ठारस जोअणसयाइं तवेंति इत्यादि" । एवममुना प्रकारेण षट्सु दिक्षु रविकरप्रसरः ॥४०॥
अथ जम्बूद्वीपे एव दक्षिणोत्तरयोः सर्वदा सर्वाग्रमाहपइदिणमवि जम्मुत्तर अडसत्तरिसहस्स सहसतइअंसो । उड्डह गुणवीससया अठिया पुव्वावरा रस्सी ॥४१॥
प्रतिदिनमपि याम्योत्तरयोः करप्रसरमीलने अष्टसप्ततिसहस्राणि त्रीणि योजनशतानि त्रयस्त्रिंशदधिकानि योजनतृतीयांशश्च ७८,३३३ । तथोर्ध्वाधश्च एकोनविंशतिशतानि १९०० । तथा सूर्यात्पूर्वस्यां अपरस्यां च रश्मयो रवेरभीषवोऽस्थिराः, सर्वमण्डलेषु हानिवृद्धिभावात् । अयं रवितेजःप्रसरो जम्बूद्वीपे एव ज्ञेयः । लवणधातकीकालोदपुष्करार्धगतसूर्याणां तेजःप्रसरोऽधिकाधिकतरो वर्तते । तेन तत्स्वरूपं मत्कृतमण्डलप्रकरणादवसेयम् । मनुष्यलोकादहि: चन्द्रसूर्याः स्थिराः सन्ति ॥४१॥ व्याख्यातं रविकरप्रसरद्वारं षष्ठम् ।।
अथ सप्तमं पर्याप्तिद्वारमाह

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110