Book Title: Vichar Saptatika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust
View full book text
________________
श्रीविचारसप्ततिका वृत्तिसमेता
७५ प्रदेशात्मिके ऊर्ध्वाधोदिशाविति । तेन जम्बूद्वीपजगत्यां विजयद्वारि पूर्वा दिक्, एवं वैजयन्तद्वारि दक्षिणा, जयन्तद्वारि पश्चिमा, अपराजिते उत्तरा इति क्षेत्रदिग्निर्णयः ॥३५॥
अथ षट्सु दिक्षु प्रतिवासरं जम्बूद्वीपगतसूर्यकिरणप्रसारं गाथाषट्केनाहसगचत्तसहस दुसई तेवट्ठा तहिगवीससटुंसा । पुव्वावरकरपसरो कक्के सूरा अहुत्तरउ ॥३६॥
कर्कसङ्क्रान्त्याद्यदिने योजनानां सप्तचत्वारिंशत्सहस्राणि द्वे च शते त्रिषष्ट्यधिके योजनस्यैकविंशतिः षष्टिभागाः ४७,२६३ २१/६०, एतावान् सूर्यात् पूर्वस्यां करप्रसरः एतावानेव च सूर्यादपरस्यां । पूर्वापरमीलने तद्दिने उदयास्तान्तरं जातं ९४,५२६ ४२/६० । 'अहुत्तर' इति मेरुदिशि करप्रसर उच्यते ॥३६॥
तदाहअसिईसऊण सहसा पणयालीसाऽह जम्मओ दीवे । असिइसयं लवणेऽवि अ तित्तीससहस्स सतिभागा ॥३७॥
सर्वाभ्यान्तरे मण्डले सूर्यः सन् कांद्यदिनेऽशीत्यधिकं योजनशतं जगतीतो द्वीपान्तः प्रविशति, तेन तदूनानि पञ्चचत्वारिंशद्योजनसहस्राणि ज्ञेयानि । एतावता चतुश्चत्वारिंशत्सहस्राणि अष्टौ शतानि विंशत्यधिकानि ४४,८२० उत्तरस्यां मेरुं यावत्करप्रसरः । यद्यपि मण्डलसमश्रेणे#रोविष्कम्भो योजनदशसहस्रात्मको न लभ्यते, किन्तु किञ्चिन्न्यूनस्तथापि व्यवहारेणैतावान् ग्राह्यः । 'अह जम्मओ' इति अथ याम्यतो दक्षिणदिशि तत्र द्वीपसम्बन्ध्यशीत्यधिकं शतम् १८० । लवणे च त्रयस्त्रिंशत्सहस्राणि 'सतिभागा' सहस्रतृतीयांशयुतानि । कोऽर्थः ? त्रीणि शतानि त्रयस्त्रिंशदधिकानि तृतीयभागो : योजनस्य च। उभयमीलने जातम् ३३,५१३ । एवं जम्बूद्वीपगतद्वितीयस्यापि सूर्यस्य करप्रसरो भावनीयः ॥३७॥

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110