Book Title: Vichar Saptatika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 96
________________ श्रीविचारसप्ततिका वृत्तिसमेता लक्षणेष्वाकाशान्तरेष्वष्टौ विमानानि भवन्ति, तासां बहुमध्यदेशभागे चैकं विमानम् । तद्यथा-अभ्यन्तरोत्तरपूर्वयोः कृष्णराज्योरन्तरेऽचिर्नाम विमानम् १ । एवं पूर्वयोरचिर्माली २ । अभ्यन्तरपूर्वदक्षिणयोर्वैरोचनम् ३ । दक्षिणयोः प्रभङ्करम् ४ । अभ्यन्तरदक्षिणपश्चिमयोश्चन्द्राभम् ५ । पश्चिमयोः सूराभम् ६ । अभ्यन्तरपश्चिमोत्तरयोः सुकाभम् ७ । उत्तरयोः सुप्रतिष्ठाभम् ८ । सर्वकृष्णराजिमध्यभागे रिष्टाभम् ९ । तच्च वृत्तं, शेषाण्वष्टौ विचित्राकाराणि, अनावलिकाप्रविष्टत्वात् । तेभ्योऽसङ्ख्यातयोजनसहजैरलोकः । 'तेसिं पहू' इति तेषां प्रभवः सारस्वतप्रमुखा देवाः । 'तहुदुग' इति तद्द्विकद्विकपरिवाराः तेषां विमानानां युगलं त्रिकेषु वक्ष्यमाणपरिवारदेवा भवन्तीत्यर्थः ॥४८-४९॥ सारस्वतादित्ययोः समुदितयोः सप्ताधिकानि सप्तदेवशतानि सन्तीति परिवारः । एवं वह्निवरुणयोश्चतुर्दशाधिकाश्चतुर्दश सहस्राः । गर्दतोयतुषितयोः सप्ताधिकाः सप्त सहस्राः । शेषेषु त्वव्याबाधाग्नेयरिष्टेष्वेतद्ग्रन्थकर्तृमते प्रत्येकं नवाधिकानि नव शतानि सन्ति । तत्र सर्वविमानगताः सर्वे देवास्तज्जातीयाः २४,४५५ । प्रवचनसारोद्धारादिबहुषु ग्रन्थेषु त्वन्त्यत्रिषु तेषु समुदितेषु नवाधिकानि नव शतान्येव, तन्मते सर्वे देवाः २२,६३७ ज्ञेयाः ॥५०॥ अथ तेषां देवानां नामान्याहसारस्सय माइच्चा वण्ही वरुणा य गद्दतोया य । तुसिआ अव्वाबाहा अग्गिच्चा चेव रिहा य ॥५१॥ सारस्वताः १, मकारोऽलाक्षणिकः । आदित्याः २ । वह्नयः ३ । वरुणाः ४ । गर्दतोयाः ५ । तुषिताः ६ । अव्याबाधाः ७ । आग्नेयाः ८ । रिष्टाश्चेति, तात्स्थ्यात्तद्व्यपदेश इति रिष्टविमानाधारा देवा रिष्टाः ९ । एते च सारस्वतादयो लोकान्तिका लोकस्य ब्रह्मलोकस्यान्ते समीपे भवा लोकान्तिकाः । ते च सुराः संवत्सरेणार्वाक् स्वयंबुद्धमपि जिनेन्द्रं जितमिति कृत्वा प्रव्रज्यासमये समागत्य "भगवन् ! सर्वजगज्जीवहितं तीर्थं प्रवर्तय" इति बोधयन्ति । ते देवा अजघन्योत्कृष्टाष्टसागरायुषः, तथा सप्ताष्टभिर्भवैर्मुक्तिगामिनः ॥५१॥

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110