Book Title: Vichar Saptatika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust
View full book text
________________
श्रीविचारसप्ततिका वृत्तिसमेता
पणसट्ठिअहिअ सयदुग संपुण्णं कोसमद्ध देसूणं । दीहे पिहु उच्चत्ते कुरुदुमवेअड्डचूलासु ॥२७॥
अष्टादशाधिकानि शतद्वयप्रमितानि चैत्यानि 'पन' इति पञ्चाशदीर्घाणि । 'अद्ध' इति पञ्चविंशतिरायामानि । षट्त्रिंशदुच्चानि । कानि तानि चैत्यानि ? मानुषोत्तर ४ इषुकार ४ गजदन्त २० वक्षस्कार ८० वर्षधर ३० चूलिकापञ्चवर्जमेरुषु ८० गतानि सर्वाण्यष्टादशाधिकानि शतद्वयचैत्यानि ज्ञेयानि ॥२६।। पञ्चषष्ट्यधिकानि शतद्वयमितानि चैत्यानि दीर्घत्वे सम्पूर्णक्रोशानि, पृथुलत्वे देशोनक्रोशानि, उच्चत्वेऽर्धक्रोशानि सन्ति । कानि तानि कुरुक्षेत्रदशकगतजम्बूवृक्षादिषु नवतिः ९० । विजयभरतैरावतगतदीर्घवैताढ्येषु सप्ततिशतं १७० । मेरुचूलासु पञ्च ५ । सर्वाणि २६५ पूर्वोक्तचैत्यैः सह सर्वाणि ५११ ज्ञेयानि । यत्तु श्रीदेवेन्द्रसूरिप्रमुखकृतशाश्वतजिनस्तोत्रेषु द्वात्रिंशच्छतान्येकोनषष्ट्यधिकानि तिर्यग्लोकगतान्युक्तानि तत्तु मतान्तरमवसेयम् । यदुक्तं वीरं जय सेहरेति क्षेत्रसमासे-"जिणभवणविसंवाओ जो तं जाणंति गीअत्था" ॥२७॥ व्याख्यातं चैत्यद्वारं चतुर्थम् ॥
अथ पञ्चमं प्रासादद्वारमाहपासाया ईसाणे 'सुहमा 'सिद्धोववाय हरए अ। ५अभिसेअ अलंकारा ववसाए नंदि बलिपीढं ॥२८॥
देवसम्बन्धिनो मूलप्रासादावतंसकादीशानकोणे एवास्थानसभातुल्या जिनदाढोपेतमाणवकचैत्यस्तम्भादियुता सुधर्मा नाम सभा वर्तते १ । तत्पुरत एवेशानकोणे सिद्धायतनं जिनगृहं २ । तत्पुरत उपपातसभा, यस्यां निजनिजविमानगता देवा उत्पद्यन्ते ३ । तदने हुदो निर्मलजलभृतः, यत्र देवाः स्नानं कुर्वन्ति ४ । तदग्रेऽभिषेकसभा, यत्र निजनिजविमानाधिपतीनामभिषेको देवैविधीयते ५ । तदग्रेऽलङ्कारसभा, यत्राभिषेकानन्तरमागत्यालङ्कारादि परिदधति ६ । तदने व्यवसायसभा, यस्यां तत्रस्थपुस्तकादिकं वाचयित्वा धार्मिकं व्यवसायादिकं गृह्णन्ति ७ । तदने नन्दा पुष्करिणी, यत्र पाणिपादौ प्रक्षाल्य

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110