Book Title: Vichar Saptatika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 84
________________ ६९ श्रीविचारसप्ततिका वृत्तिसमेता मल्लिस्सवि वीसजुगा छ कोडि मुणिसुव्वयस्स कोडितिगं । नमितित्थे इगकोडी सिद्धा तेणेव कोडिसिला ॥२१॥ प्रथमं श्रीशान्तिनाथजिनेश्वरस्य चक्रायुधनामा प्रथमो गणधरोऽनेकसाधुगणपरिवृत्तः सिद्धि गतः । ततो द्वात्रिंशद्युगैरिति द्वात्रिंशत्पट्टप्रतिष्ठितपुरुषपरम्पराभिः सङ्ख्येयमुनिकोटयः सिद्धाः । तत्र शिलायामिति शेषः १ ॥१९॥ सङ्ख्येयमुनिकोटयोऽष्टाविंशतियुगैः श्रीकुन्थुनाथतीर्थसम्बन्धिन्यस्तत्र सिद्धाः २। तथा श्रीअरनाथजिनस्य द्वादश कोटयो मुनीनां चतुर्विंशतियुगान् यावत् सिद्धाः ३ ॥२०॥ श्रीमल्लिनाथस्यापि विंशतियुगान् यावत् षट् कोटयः साधवः सिद्धाः ४ । तथा श्रीमुनिसुव्रतजिनस्य तिस्रः कोटयः सिद्धाः ५ । तथा श्रीनमिनाथतीर्थङ्करस्य एका कोटिः सिद्धा मुनीनामिति शेषः ६ । अन्येऽपि बहवः साधवः सिद्धास्तेन कारणेनैषा कोटिशः सिद्धभवनात्कोटिशिलेत्यभिधीयते ॥२१॥ अथ सा शिला कैरुत्पाटिता तदाहछत्ते सिरम्मि गीवा वच्छे उयरे कडीइ ऊरूसु । जाणु कहमवि जाणू नीया सा वासुदेवेहिं ॥२२॥ नवभिर्वासुदेवैः सा शिला उत्पाटनावसरे एतेषु स्वाङ्गस्थानकेषु आनीता। यथा-प्रथमेन त्रिपृष्ठवासुदेवेन वामहस्तेनोत्पाट्य छत्रस्थाने शिरस्यूज़ समानीता १। द्वितीयेन द्विपृष्ठेन तथैवोत्पाट्य शीर्षं यावदानीता २॥ तृतीयेन स्वयंभुवा ग्रीवां यावदानीता ३। चतुर्थेन पुरुषोत्तमेन वक्षस्यानीता ४। पञ्चमेन पुरुषसिंहेन उदरं यावदानीता ५। षष्ठेन पुरुषपुण्डरीकेण कटीं यावदानीता ६। सप्तमेन दत्तनाम्ना ऊर्वोर्नीता ७। अष्टमेन लक्ष्मणेन जान्वोर्नीता ८। नवमेन कृष्णेन कथमपि जान्वोः किञ्चिदधः समानीता ९ ॥२२॥ कोटिशिलाद्वारं तृतीयम् ॥ अथ शाश्वतचैत्यद्वारं चतुर्थमाहइक्कारअहिअपणसय सासयचेइअ नमामि महिवलए । तीसं वासहरेसु वेयड्डेसुं च सयरिसयं ॥२३॥

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110