Book Title: Vichar Saptatika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 85
________________ ७० श्रीविचारसप्ततिका वृत्तिसमेता एकादशाधिकानि पञ्च शतानि ५११ शाश्वतानि चैत्यानि सिद्धायतनानि महीवलये तिर्यग्लोके नमामि । यतो यान्यूर्ध्वलोके ८४,९७,०२३ चैत्यानि, अधोलोके च ७,७२,००,००० चैत्यानि, व्यन्तरज्योतिष्केष्वसङ्ख्यातानि, तानि ग्रन्थान्तरसुगम्यानि । अत्र तु तिर्यग्लोकगतचैत्यस्थानान्येवाह-'तीसं' इति वर्षधरपर्वतेषु त्रिंशत् चैत्यानि, प्रतिपर्वतमेकैकचैत्यसद्भावात् । तथा दीर्घवैताढ्येषु सप्तत्यधिकं शतं १७० ॥२३॥ तथा चाहवीसं गयदंतेसुं कुरुदुमदसगे तहेव नई अ। वक्खारगिरिसु असिई पणसीई मेरुपणगम्मि ॥२४॥ इसुमणुकुंडलरुअगे चउ चउ वीसं च नंदिसरिदीवे । अडवीस नंदिकुंडलिरुअगे सयपन्नबासयरी ॥२५॥ विंशतिर्गजदन्तपर्वतेषु २० । तथा जम्बूवृक्षादिदशवृक्षेषु नवति: ९० । यत एकमूर्ध्वशाखायां वृक्षाद्दिग्विदिक्स्थेष्वष्टसु कूटेषु चैकैकचैत्यसद्भावात् प्रतिवृक्षं नवैव, तेन दशवृक्षेषु नवतिः ९० । तथाऽशीतिसङ्ख्येषु वक्षस्कारगिरिषु अशीतिश्चैत्यानि ८० । तथा मेरुपञ्चके पञ्चाशीतिः । यतश्चतुर्पु वनेषु चतुर्दिक्षु चतुश्चैत्यसद्भावात् १६, चूलिकायां चैकम्, एवं प्रतिमेरु १७ ॥२४॥ इषुकारमानुषोत्तरकुण्डलरुचकाभिधेषु प्रत्येकं चत्वारि चत्वारि । तथा नन्दीश्वरद्वीपे विंशतिश्चैत्यानि । अथैतेषां चैत्यानामुच्चत्वादिप्रमाणमाह-नन्दीश्वरसत्का विंशतिः, कुण्डलरुचकयोरष्टौ, सर्वाण्यष्टाविंशतिः । 'सयपन्न' इति पूर्वपश्चिमयोः शतयोजनदीर्घाणि, दक्षिणोत्तरतः पञ्चाशदायामानि, द्वासप्ततिरुच्चानि, चतुर्दाराणि ॥२५॥ अथ तदर्धमानान्याहअट्ठाराहिय दुसई पनद्ध छत्तीस दीहपिहुउच्चा। माणसइसुगयदंतयवक्खारवासहरमेरुसुं ॥२६॥

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110