Book Title: Vichar Saptatika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 80
________________ ८५ श्रीविचारसप्ततिका वृत्तिसमेता तिर्यग्नरदेवानां, ‘एवं' अमुना वक्ष्यमाणेन प्रकारेण ज्ञेयाः ॥९॥ ता आहभूदग्गिवाउणंता वीसं सेसतरु विगल अद्वैव । गब्भेयर पज्जेयर जलथलनहउरभुआ वीसं ॥१०॥ 'भूदग्गि' इति भूजलानलानिलानन्तकायवनस्पतयो मूलभेदेन पञ्च, ते सूक्ष्मबादरभेदाभ्यां दश भेदाः । दशापि पर्याप्तापर्याप्तभेदाभ्यां विंशतिः । 'सेसतरु' इति शेषवनस्पतिः प्रत्येकवनस्पतयः द्वित्रिचतुरिन्द्रियलक्षणविकलेन्द्रियत्रयमिलिताश्चत्वारो भेदाः, ते पर्याप्तापर्याप्तभेदाभ्यां अष्टौ । 'गब्भेयर' इति गर्भजसम्मूर्छनजपर्याप्तापर्याप्तभेदैश्चतुविधा अपि पञ्चेन्द्रियाः पञ्च, ते के ? जलचर-स्थलचर-खेचर'-उर:परिसर्प-भुजपरिसर्पाः । पञ्चैते चतुर्भेदगुणिता विंशतिः । एवमेकेन्द्रियाः पूर्वोक्ता विंशतिः, प्रत्येकवनस्पतिविकलेन्द्रिया अष्टौ, पञ्चेन्द्रिया विंशतिः, मिथः सम्मिलिता अष्टचत्वारिंशत्तिर्यग्भेदाः ४८ ॥१०॥ अथ मनुष्यभेदानाहपनरस तीस छपन्ना कम्माकम्मा तहंतरद्दीवा । गब्भा पज्ज अपज्जा मुच्छ अपज्जा तिसय तिन्नि ॥११॥ पञ्चभरतपञ्चैरावतपञ्चमहाविदेहसम्भवाः पञ्चदश कर्मभूमिजाः । तथा भरतैरावतान्तरालवर्तिषु पञ्चहैमवतपञ्चहरिवर्षपञ्चरम्यकपञ्चहैरण्यवतपञ्चदेवकुरुपञ्चोत्तरकुरुषु त्रिंशदकर्मभूमिजा युगलिनः । तथा क्षुल्लहिमवच्छिखरिनाम्नोः पर्वतयोः पर्यन्ताल्लवणोदधौ पूर्वस्यां पश्चिमायां (च) द्वे द्वे गजदन्ताकारे दंष्ट्र विनिर्गते, एवमष्टौ दंष्ट्राः, एकैकस्यां सप्त सप्त द्वीपाः, एवं षट्पञ्चाशदन्तरद्वीपेषु युगलिनः । ततः पञ्चदश, त्रिंशत्, षट्पञ्चाशत् (च) मिलितेषु एकोत्तरशतक्षेत्रेषु गर्भसमुत्पन्ना मनुष्याः । ते च पर्याप्तापर्याप्तभेदाभ्यां व्यधिकं द्विशतं भवन्ति । एतेष्वेव पूर्वोक्तस्थानकेषु सम्मूर्छनजा मनुष्या एकाधिकं शतं भवन्ति, ते चापर्याप्ता एव, तेषां पर्याप्तत्वभवनाभावात् ।

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110