Book Title: Vichar Saptatika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 78
________________ ३ श्रीविचारसप्ततिका वृत्तिसमेता भवणवईभवणेसुं कप्पाइविमाण तह महीवलए। सासयपडिमा पनरस कोडिसय बिचत्त कोडिओ ॥३॥ पणपन्नलक्ख पणविस सहसा पंच य सयाई चालीसा । तह वणजोई सुरेसुं सासयपडिमा पुण असंखा ॥४॥ भवनपतिभवनेषु तथा कल्पादिविमानेषु तथा महीवलये इति तिर्यग्लोके पञ्चदशशतकोटयो द्विचत्वारिंशत्कोटयः पञ्चपञ्चाशल्लक्षाः पञ्चविंशतिः सहस्राश्चत्वारिंशदधिकाः पञ्चशतप्रतिमाः १५,४२,५५,२५,५४० । तथा व्यन्तरज्योतिष्कभवनेषु शाश्वत्यः प्रतिमाः पुनरसङ्ख्याताः, तेषां निवासस्थानानामसङ्ख्यातत्वात् । यत्तु ग्रन्थान्तरे व्यन्तरज्योतिष्कातिरिक्ताः शाश्वत्यः प्रतिमाः "पनरस कोडिसयाइं दुचत्त कोडीऽडवन्न लक्खाई। छत्तीस सहस असिआ तिहुअणबिंबाणि पणमामि ॥१॥" इत्युक्ता दृश्यन्ते तद्ग्रन्थमते तथैव, एतद्ग्रन्थकर्तृमते चैतावत्यः ॥३-४॥ अथाशाश्वती: प्राहतह चेव जंबुदीवे धायइसंडे य पुक्खरद्धे अ। भरहेरवयविदेहे गामागरनगरमाईसु ॥५॥ तथा चैव जम्बूद्वीपे धातकीखण्डे पुष्कराद्धे च भरतैरावतविदेहेषु ग्रामाकरनगरादिषु ॥५॥ एतेषु किमित्याहसुरमणुएहिँ कयाओ चेइअगिहचेइएसु जा पडिमा। उक्कोस पंच धणुसय जाव य अंगुट्ठपव्वसमा ॥६॥ एतेषु पूर्वोक्तस्थानकेषु काश्चन सुरकृता विद्युन्मालिसुरकृतश्रीमहावीरजीवितस्वामिमूर्त्यादयः, काश्चन भरतचक्रयादिमनुष्यकारिताष्टापद

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110