Book Title: Vichar Saptatika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust
View full book text
________________
श्रीविचारसप्ततिका वृत्तिसमेता ॥ अर्हम् ॥ श्रीमहेन्द्रसूरिविरचिता श्रीविचारसप्ततिका।
श्रीविनयकुशलरचितवृत्तिसमेता सर्वज्ञं श्रीजिनं नत्वा विश्वस्थितिविचारकम् । विचारसप्ततेः किञ्चित्सङ्क्षपार्थो विधीयते ॥१॥
इह सार्वज्ञे प्रवचनेऽनेके विचाराः सन्ति । परमत्राञ्चलगच्छशृङ्गारहारश्रीमहेन्द्रसिंहसूरिभिर्वादश विचाराः सङ्ग्रहीताः । तत्र प्रथमं द्वारगाथामाह - 'पडिमा 'मिच्छा कोडी "चेइअ 'पासाय रविकरप्पसरो । "पज्जत्ति किन्ह वलया १०नंदी गिहिकिरिअ१ १२गुणठाणा ॥१॥
शाश्वतप्रतिमानां सङ्ख्याविचारः १। ईर्यापथिकीमिथ्यादुष्कृतविचार: २। कोटिशिलास्वरूपविचार: ३। चैत्यानां शाश्वतसिद्धायतनानां सङ्ख्याविचार: ४। प्रासादानां देवविमानानां आकारविचार: ५। षट्सु दिक्षु सूर्यकिरणानां प्रसारविचारः ६। औदारिकवैक्रियाहारकदेहत्रिके षट्पर्याप्तिविचार: ७। पञ्चमस्वर्गस्थकृष्णराजीविचार: ८। मानुषोत्तरकुण्डलरुचकाभिधवलयाकारपर्वतत्रयविचार: ९। नन्दीश्वराभिधानस्याष्टमद्वीपस्य विचारः १०। गृहस्थानामिति श्रावकाणां धर्मक्रियावक्तव्यताविचारः ११। चतुर्दशगुणस्थानकानां विचार: १२। एभि‘दशभिरैर्विचारसप्ततिकाभिधानो ग्रन्थोऽयमभिधीयते ॥१॥
अथाद्यं प्रतिमाद्वारमाह - उसभाईजिणपडिमं इक्कं पि न्हवंतपूअयंतेहिं । चिंतेअव्वं एयं भव्वेहिँ विवेगमंतेहिं ॥२॥
ऋषभाद्यनेकजिनप्रतिमानां मध्यादेकामपि जिनप्रतिमा स्नपयद्भिः पूजयद्भिविवेकवद्भिर्भव्यैरेतच्चिन्तयितव्यम् ॥२॥
यच्चिन्तयितव्यं तद्गाथापञ्चकेनाह -

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110