________________
श्रीमन्महेन्द्रसूरिसङ्कलिता श्रीविनयकुशलविरचितवृत्तिसमेता
श्रीविचारसप्ततिका
प्रस्तावना
इदं विचारसप्ततिकाख्यं चिरत्नप्रकरणरत्नं जिनप्रवचनपारावारपारीणैः अञ्चलगच्छापरपर्यायविधिपक्षभट्टारकसुरसूरिभिः श्रीमहेन्द्रसूरिभिः सन्हब्धम्, तच्च “महिंद" इति प्रान्तगाथागतपदावलोकनेन स्फुटमेव विज्ञायते । वृत्तिकारैस्तु-"महेन्द्रसिंहसूरिभिः" इत्युल्लेखितम्, परमेभिरेवाचार्यैर्विनिर्मितान्यप्रकरणेषु महेन्द्रसूरिरित्येवोपलभ्यतेऽतो मयापि तथैव लिखितम्, इत्येतद्विषयस्त्वग्रे स्फुटीभविष्यति । अस्य रचयितारोऽञ्चलगच्छीयश्रीधर्मघोषसूरिविनेयावतंसतां धर्तारो गुणभूरयो महेन्द्रसूरयो विक्रमार्कीयत्रयोदशशताब्द्यामभूवन् । एतेषां धर्मघोषसूरिशिष्यत्वं सत्तासमयश्च मनःस्थिरीकरणप्रकरणआयुःसङ्ग्रह-परिग्रहप्रमाणगतानां क्रमेण
"सिरिधम्मसूरिसुगुरूवएसओ सिरिमहिंदसूरीहिं । मणथिरिकरणपयरणं संकलिअं बारचूलसीए ॥१६६॥" "इय धम्मसूरिसुगुरूवएसओ सिरिमहिंदसूरीहिं ।
कइवयथूलपयाऊ संकलिअं बारचूलसीए ॥८२॥" "सिरिजयसिंहमुणीसरसरवरकमलाण धम्मसूरीण ।
तच्चरणमहुयराणं महिंदसूरीण पासंमि ॥१८॥ बारसतेयासीए" इत्येतासां सपादत्रयगाथानां निवर्णनेन प्रकटमेवावगम्यते । एतत्प्रकरणप्रणेतृभिरुक्तव्यतिरिक्ता अन्येऽपि ग्रन्थाः कृता भवेयुः, परं कति किंविषयाः? इति नाद्यापि निर्णयपथमवतीर्णम् ।
प्रकरणस्यास्य के वृत्त्याः प्रणेतार इत्येतद्विषयनिर्णयस्तु