Book Title: Vichar Ratnakar
Author(s): Kirtivijay, Dansuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
दृष्टान्तो दृतिः शकटं च केवलमुत्तरगुणा अपि तत्र दर्शयितव्याः, उत्तरगुणेषु दृष्टान्तो मण्डपे सर्षपादि आदिशब्दाच्छिलादिपरिग्रहः, तत्रापि मूलगुणा अपि दर्शयितव्याः, इयमत्र भावना - एकेनापि मूलगुणप्रतिसेवनेन तत्क्षणादेव चारित्रभ्रंश उपजायते उत्तरगुणप्रतिसेवनायां पुनः कालेन, अत्र दृष्टान्तो दृतिकः तथा हि-यथा दृतिक उदकभृतः पञ्चमहाद्वारः, तेषां महाद्वाराणामेकस्मिन्नपि महाद्वारे मुत्कलीभूते तत्क्षणादेव रिक्तीभवति, सुचिरेण तु कालेन पूर्यते, एवं महाव्रतानामेकस्मिन्नपि महाव्रतेऽतिचर्यमाणे तत्क्षणादेव समस्तचारित्रभ्रंशो भवति एकमूलगुणघाते सर्वमूलगुणानां घातात्, तथा च गुरवो व्याचचते - एकत्रतभङ्गे सर्वव्रतभङ्ग इति एतन्निश्चयनयमतं, व्यवहारतः पुनरेकव्रतभङ्गे तदेवैकं भनं प्रतिपत्तव्यम्, शेषाणां तु भङ्गः क्रमेण, यदि प्रायश्चित्तप्रतिपच्या नानुसन्धत्ते, इति । श्रन्ये पुनराहुः – चतुर्थमहाव्रतभङ्गप्रतिसेवनेन तत्कालमेव सकलचारित्रभ्रंशः, शेषेषु पुनर्महाव्रतेष्वभीच्णप्रतिसेवनया महताऽतिचारेण वा वेदितव्यः । उत्तरगुणप्रतिसेवनायां पुनः कालेन चरणभ्रंशो यदि पुनः प्रायश्चित्तप्रतिपत्त्या नोज्ज्वालयति । एतदपि कुतोऽवसेयम् १ इति चेत्, उच्यतेशकटदृष्टान्तात् । तथा हि-शकटस्य मूलगुणा द्वे चक्रे, उद्धी अश्व, उत्तरगुणा बुन्नकीलकलोहपट्टादयः एतैर्मूलगुणैरुत्तरगुणैश्च सुसम्प्रयुक्तं सत् शकटं यथा भारवहनचमं भवति मार्गे च सुखं वहति तथा साधुरपि मूलगुणैरुत्तरगुणैश्च सुसम्प्रयुक्तः सन् अष्टादशशीलाङ्गसहस्र भारवहन क्षमो भवति, विशिष्टोत्तरोत्तरसंयमाध्यवसाय स्थानपथे च सुखं वहति । अथ शकटस्य मूलाङ्गानामेकमपि मूला भग्नं भवति तदा न भारवदनचमं नापि मार्गे प्रवर्त्तते । उत्तराङ्गैस्तु कैश्चिद्विनाऽपि कियत्कालं शकटं मारचमं भवति प्रवहति च मार्गे, कालेन पुनर्गच्छता अन्यान्यपरिशटनादयोग्यमेव तदुपजायते । एवमिहापि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416