________________
पदिष्टशासनप्रतिपन्नत्वेनापि, ततो न कश्चिद्दोषः । तथा च तेषां ग्रन्थः-इह तित्थे अपरिमाणा पइन्नगा पइमगसामिअपरिमाणतणओ, किं तु इह सुत्चे पत्तेयबुद्धपणीयं पइसगं भाणियव्वं । कम्हा जम्हा पइमगपरिमाणेण चेव पत्तेयबुद्धपरिमाणं कीरइ इति, भणियं 'पत्तेयबुद्धावि तत्तिया चेव 'त्ति | चोयग आह-नणु पत्तेयबुद्धा सिस्सभावो य विरुज्झए । आयरिओ आह-तित्थगरपणीयसासणपडिवनत्तणो तस्स सीसा हवंति ॥ अन्ये पुनरेवमाहुः-सामान्येन प्रकीर्णकैस्तुल्यत्वात्प्रत्येकबुद्धानामभिधानं, न तु नियोगतः प्रत्येकबुद्धरचितान्येव प्रकीर्णकानीति । ' से तं ' इत्यादि, तदेतत्कालिकम् , तदेतदावश्यकव्यतिरिक्तमिति ॥ १३५ ॥ इति श्रीगच्छाचारप्रकीर्णकावचूर्णौ । ३४ । पत्रे ॥ १४ ॥ ____उत्कृष्टा चैत्यवन्दना ऐर्यापथिकीप्रतिक्रमणपूर्विकैव भवति । जघन्यमध्यमे तु चैत्यवन्दने ऐर्यापथिकीप्रतिक्रमणमन्तरेणाऽपि भवतः । इति प्रवचनसारोद्धारे चैत्यवन्दनद्वारवृत्तौ ॥ १५ ॥
अथ साधर्मिकवात्सल्यप्रभावनाऽक्षराणि लिख्यन्तेनिस्संकिय १, निकंखिय २, निन्वितिगिच्छा ३, अमृढदिट्ठी य ४। उववूह ५ थिरीकरणे ६, वच्छल ७, पभावणे ८, अट्ठ ॥ ३२ ॥ शङ्कितं-देशसर्वात्मकं, तदभावो निःशङ्कितम् १, काडिन्त-मन्यान्यदर्शनग्रहात्मकं, तदभावो निष्कासितम् २, विचिकित्सा-फलं प्रतिसन्देहस्तदभावो विदो-विज्ञास्ते च तत्त्वतः साधव एव तज्जुगुप्सा वा तदभावो निर्विचिकित्सितं, निर्विजुगुप्सां वा ३, आपत्वात्सूत्र एवं पाठः, अमूढा-ऋद्धिमत्कुतीर्थिकदर्शनेऽप्यवगीतमस्मदर्शनमिति मोहरहिता चासौ दृष्टिश्च-बुद्धिरूपा अमूढदृष्टिः ४, स च चतुर्विधोऽप्ययमान्तर आचारः। बाह्यं त्वाह-उपवृंहणा-गुणवतां स्तुतिः ५,
in
due an
o
ma
For Private & Personal Use Only
"www.jainelibrary.org