Book Title: Vichar Ratnakar
Author(s): Kirtivijay, Dansuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 373
________________ 99 जाय, जिणकम्मंमि उपयोगो य ॥ २ ॥ ढौकिताचतादेर्निर्माल्यत्वमुक्तं परमन्यत्रागमे प्रकरणचरित्रादौ वा क्वापि न दृश्यते, वृद्धसम्प्रदायादिना क्वापि गच्छेऽपि नोपलभ्यते यत्र च ग्रामादावादानादिद्रव्यागमोपायो नास्ति तत्राक्षतवन्यादिद्रव्येणैव प्रतिमाः पूज्यमानाः सन्ति । अक्षतादेर्निर्माल्यत्वे तु तत्र प्रतिमापूजाऽपि कथं स्यात्तस्माद्भोग विनष्टस्यैव निर्मान्यत्वमुक्तम् | " भोगविण दव्वं, निम्मल्लं चिंति गीयत्था । " इत्यागमोक्तेरपि । तवं तु केवलिंगम्यम् । इति श्राद्धविधौ । एते सर्वेऽपि विचाराः श्राद्धविधौ दिनकृत्याधिकारे || ३४ ॥ एतेषामादौ अभिप्रायास्तु स्पष्टतमत्वादेव नोल्लेखिता इति । अथ केचित् सुविहितपरंपरावन्तोऽपि गृहस्थाः सदारम्भमच्यारम्भमिव गणयन्ति परं तेऽनवबुद्धा ज्ञेयाः, यतोऽसदारम्भवतः सदारम्भस्य सुतमां विहितत्वात् । अयमेवाभिप्रायो लिख्यते राजादेस्तु विधापयितुः प्रचुरतरभाण्डागारनगर मण्डल गोकुलादिप्रदानं जिनभवनक्षेत्रे वपनम् । तथा जीर्णशीर्णानां चैत्यानां समारचनं नष्टभ्रष्टानां समुद्धरणं चेति । ननुं निरवद्यजिनधर्मसमाचरणचतुराणां जिनभवनबिम्बपूजादिकरणमनुचितमिव प्रतिभासते, षट्जीवनिकायविराधनाहेतुत्वात्तस्य भूमिखननदलपाटकानयनगर्त्तापूरणेष्टका चयन जलप्लावन वनस्पतिसकायविराधनामन्तरेण न हि तद्भवति । उच्यते -य आरम्भपरिग्रहप्रसक्तः कुटुम्ब परिपालननिमित्तं धनोपार्जनं करोति, तस्य धनोपार्जनं विफलं माभूदिति जिनभवनादौ धनव्ययः श्रेयानेव, न च धर्मार्थे धनोपार्जनं युक्तम् । यतः - " धर्मार्थं यस्य वित्तेहा, तस्यानीहा गरीयसी । प्रक्षालनाद्धि पङ्कस्य, दूरादस्पर्शनं वरम् " ।। इत्युक्तमेव, न च वापीकूपतडागादिखननवदशुभोदकं जिनभवनादिकरणम् । अपि तु सङ्घसमागमधर्मदेशना करणव्रतप्रतिपत्यादिकरणेन शुभोदर्कमेव । षट्जीव Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416