Book Title: Vichar Ratnakar
Author(s): Kirtivijay, Dansuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सर्वेष्वपि नियमेषु च सहसाऽनामोगाद्याकारचतुर्क चिन्त्यम्, तेनानाभोगादिनाऽनियमितबहुवस्तुग्रहणेऽपि नियमभङ्गो न । 12 स्यात्, किन्त्वतिचारमात्रम् । ज्ञात्वा त्वंशमात्रग्रहणेऽपि नियमभङ्ग एव जातु दुःकर्मपारवश्येन ज्ञात्वाऽपि भङ्गेऽग्रतो नियमः |
पाल्य एव धर्मार्थिना । प्रतिपन्नपश्चमीचतुर्दश्यादितपोदिनेऽपि तिथ्यन्तरभ्रान्त्यादिना सचित्तजलपानताम्बूलभवणकियोजनादौ यदा तपोदिनं ज्ञातं तदनु मुखान्तःस्थमपि न गिलति, किं तु तत्यक्त्वा प्रासुकवारिणा मुखशुद्धिं कृत्वा तपोरीत्यैव तिष्ठति । तद्दिने च यदि भ्रान्त्या पूर्ण भुक्तस्तदा द्वितीयदिने दण्डनिमित्तं तत्तपः कार्यम् । समाप्तौ च तत्तपो वर्द्धमान कार्यम् । एवं चातिचार एव स्यान तु भङ्गः। तपोदिनज्ञानादनुसिक्थादिमात्रगिलने तु भङ्ग एव नरकादिहेतुः । दिनसंशये कल्प्याकम्प्यसंशये वा कल्प्यग्रहणेऽपि भङ्गादिदोषः । गाढमान्ये भूतादिदोषपारवश्ये सर्पदंशाद्यसमाधौ च यदि तत्तपः कषु न शक्नोति तथाऽपि चतुर्थाकारोच्चारान भङ्गः । एवं सर्वनियमेष्वपि भाव्यम् । इति श्राद्धविधौ ॥ २९ ॥
तयणु हरिसुन्नसंतो, कयमुहकोसो जिणिंदपडिमाणं । अवणेइ रयणिवसिय, निम्मल्लं लोमहत्थेणं ॥१॥ मुखकोशश्चाटपुटः प्रान्तनासानिश्वासनिरोधार्थ कार्यः । इति श्राद्धविधौ ।। ३० ॥
नित्यं पर्वसु वा वर्षमध्ये कियद्वारं वा खाद्यस्वाद्यादिसर्ववस्तूनां देवस्य गुरोश्च प्रदानपूर्व भोजनम् । इति श्राद्धविधौ ॥३१॥
तथा ऋणसम्बन्धे हि प्रायः कलहानिवृत्तेर्वैरवृद्धाद्यपि प्रतीतं तस्मादृणसम्बन्धस्तद्भव एव यथा कथञ्चिन्निाल्यः । अन्यत्रापि व्यवहारे निजस्वस्याचटने धर्मार्थमिदमिति चिन्त्यं धर्मार्थिना । अतः साधर्मिकैरेव सह मुख्यवृत्या व्यवहारो न्याय्यः । तत्पार्थे स्थितस्य निजस्वस्य धर्मोपयोगित्वसम्भवात् । म्लेच्छादिपालिभ्ये तु यत्र कोऽपि पुण्योपयोगो न स्यात् ।
Jain Education thational
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416