Book Title: Vichar Ratnakar
Author(s): Kirtivijay, Dansuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तस्मिन्नियमात्सम्यक्त्वम् । शेषे च किञ्चिदनदशपूर्वधरादौ सम्यक् वा स्यान्मिथ्यात्वं वेत्यर्थः। इति बृहत्कल्पे १५ पत्रे ॥४२॥
अथ साधूनां चित्रिते उपाश्रये वस्तुं न कल्पत इत्यक्षराणि लिख्यन्ते
नो कप्पई निग्गंथाण वा निग्गंथीण वा सचित्तकम्मए उवस्सए वत्थु । कप्पइ निग्गंथाण वा निग्गंथीण वा अचित्तकम्मए उवस्सए वत्थु इति । वृत्तिर्यथा-नो कल्पते निर्ग्रन्थानां निग्रन्थीनां वा सचित्रकर्मणि उपाश्रये वस्तुम् । कल्पते पुनरचित्रकर्मणि उपाश्रये निग्रन्थानां निर्ग्रन्थीनां वा वस्तुमिति सूत्रार्थः । अथ भाष्यविस्तरः-निहोस सदोसे वा, सचित्तकम्मे उ आणमादीणि । सइकरणं विकहा वा, बीअं असई य वसहीए ॥ १॥ निर्दोषे वा सदोष वा सचित्रकर्माण प्रतिश्रये तिष्ठतामाज्ञादयो दोषाः ये च तादृशे वा चित्रकर्मखचिते वेश्मनि पूर्वभोगान् बुभुजिरे तेषां स्मृतिकरणम् , उपलक्षणत्वादितरेषां कौतुकमुपजायते, विकथा वा तत्र वक्ष्यमाणलक्षणा भवेत् । द्वितीयपदं चात्र वसतावसत्यां तत्रापि वसेत् । अथैनामेव नियुक्तिगाथा व्याख्याति-तरुगिरिनदीसमुद्दा, भवणा बल्ली लया वियाणा य । निदोसचित्तकम्मे, पुन्नकलससोत्थियादी य ॥१॥ तरवः सहकारादयो, गिरयो हिमवदादयो, नद्यादयो गङ्गासिन्धुप्रभृतयः, समुद्रा लवणोदादिकाः, भवनानि गृहाणि, वब्बयो नागवल्ल्यादयः, लता माधवीचम्पकलतादयः, तासां वितानं निकुंरबं, तथा पूर्णकलशः स्वस्तिकादयश्च ये माङ्गलिकाः पदार्थाः, एतेषां रूपाणि यत्रालिखितानि तच्चित्रकर्म निर्दोषं ज्ञातव्यम् । इति बृहत्कन्पप्रथमोद्दशे १६५ पत्रे ।। ४३ ॥
अथ गच्छपरिमाणं लिख्यतेतिगमाईया गच्छा, सहस्सबतीसई उसभसेणे । थंडिल्लपि य पढम, वयंति सेसेवि आगाढे ॥१॥ त्रिकादयस्त्रिचतुःप्रभृ
नि पूर्वभोगान् मालवा सदोषे वा सचित्रकामास बा, सचित्तकम्म
www.jainelibrary.org
Jain Educatio
n
For Private Personal Use Only
al

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416