SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ तस्मिन्नियमात्सम्यक्त्वम् । शेषे च किञ्चिदनदशपूर्वधरादौ सम्यक् वा स्यान्मिथ्यात्वं वेत्यर्थः। इति बृहत्कल्पे १५ पत्रे ॥४२॥ अथ साधूनां चित्रिते उपाश्रये वस्तुं न कल्पत इत्यक्षराणि लिख्यन्ते नो कप्पई निग्गंथाण वा निग्गंथीण वा सचित्तकम्मए उवस्सए वत्थु । कप्पइ निग्गंथाण वा निग्गंथीण वा अचित्तकम्मए उवस्सए वत्थु इति । वृत्तिर्यथा-नो कल्पते निर्ग्रन्थानां निग्रन्थीनां वा सचित्रकर्मणि उपाश्रये वस्तुम् । कल्पते पुनरचित्रकर्मणि उपाश्रये निग्रन्थानां निर्ग्रन्थीनां वा वस्तुमिति सूत्रार्थः । अथ भाष्यविस्तरः-निहोस सदोसे वा, सचित्तकम्मे उ आणमादीणि । सइकरणं विकहा वा, बीअं असई य वसहीए ॥ १॥ निर्दोषे वा सदोष वा सचित्रकर्माण प्रतिश्रये तिष्ठतामाज्ञादयो दोषाः ये च तादृशे वा चित्रकर्मखचिते वेश्मनि पूर्वभोगान् बुभुजिरे तेषां स्मृतिकरणम् , उपलक्षणत्वादितरेषां कौतुकमुपजायते, विकथा वा तत्र वक्ष्यमाणलक्षणा भवेत् । द्वितीयपदं चात्र वसतावसत्यां तत्रापि वसेत् । अथैनामेव नियुक्तिगाथा व्याख्याति-तरुगिरिनदीसमुद्दा, भवणा बल्ली लया वियाणा य । निदोसचित्तकम्मे, पुन्नकलससोत्थियादी य ॥१॥ तरवः सहकारादयो, गिरयो हिमवदादयो, नद्यादयो गङ्गासिन्धुप्रभृतयः, समुद्रा लवणोदादिकाः, भवनानि गृहाणि, वब्बयो नागवल्ल्यादयः, लता माधवीचम्पकलतादयः, तासां वितानं निकुंरबं, तथा पूर्णकलशः स्वस्तिकादयश्च ये माङ्गलिकाः पदार्थाः, एतेषां रूपाणि यत्रालिखितानि तच्चित्रकर्म निर्दोषं ज्ञातव्यम् । इति बृहत्कन्पप्रथमोद्दशे १६५ पत्रे ।। ४३ ॥ अथ गच्छपरिमाणं लिख्यतेतिगमाईया गच्छा, सहस्सबतीसई उसभसेणे । थंडिल्लपि य पढम, वयंति सेसेवि आगाढे ॥१॥ त्रिकादयस्त्रिचतुःप्रभृ नि पूर्वभोगान् मालवा सदोषे वा सचित्रकामास बा, सचित्तकम्म www.jainelibrary.org Jain Educatio n For Private Personal Use Only al
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy