Book Title: Vichar Ratnakar
Author(s): Kirtivijay, Dansuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 390
________________ विचार रत्नाकर ११८६॥ तेनोपाध्यायादीनां प्रभूणां परिग्रहस्तेषाम् । तथा ग्लाना:-मन्दास्तेषाम् च पुनः पुनर्मलिनानि वस्त्राणि प्रचालयेत् । प्राकृतत्वाच्च मलिनानीत्यत्र पुंस्त्वनिर्देशः । प्रस्तुतेऽर्थे कारणमाह-' मा हु' इत्यादि मा भवतु, हु निश्चितम् , गुरूणां मलिनवस्त्रपरिधाने लोकेऽवर्णो-ऽश्लाघा । यथा निराकृतयोऽमी मलदुरभिगन्धोपलिप्तदेहास्ततः किमेतेषामुपकंठगतैरस्माभिरिति, तथा इतरस्मिन् ग्लाने मा भवत्वजीर्णमिति । मलक्लिन्नवस्त्रधारणे हि शीतलमारुतादिसम्पर्कतः शैत्यसम्भवेन भुक्ताऽऽहारस्यापरिणतो ग्लानस्य विशेषतो मान्द्यमुज्जृम्भते । इति श्रीप्रवचनसारोद्धारे एकत्रिंशदुत्तरशततमद्वारे ॥ ६७॥ यः प्रतिदिनं द्वथासनं करोति तस्य मासेनाष्टाविंशत्युपवासपुण्यं भवति यथा रात्रिचतुर्विधाहारपरिहारस्थानोपवेशनपूर्वकताम्ब्लादिव्यापारणमुखशुद्धिकरणादिविधिना ग्रन्थिसहितप्रत्याख्यानपालने एकवारभोजिनः प्रतिमासमेकोनत्रिंशत् , द्विवारभोजिनस्त्वष्टाविंशतिनिर्जला उपवासाः स्युरिति वृद्धवाः। भोजनताम्बूलजलव्यापारणादौ प्रत्यहं घटीद्वयघटीद्वयसम्भवे मासे एकोनत्रिंशत् , घटीचतुष्टयसम्भवे त्वष्टाविंशतिरुपवासाः। यदुक्तं पद्मचरित्रे-“भुंजइ अणंतरेणं, दुनि य वेला उ जो निनोगेणं । सो पावइ उववासा, अट्ठावीसं तु मासेणं ॥१॥" इति श्राद्धविधौ प्रथमाधिकारे ॥६॥ अथ नखरदनीछुरीरक्षणाक्षराणि लिख्यन्तेम असणाईया चउरो ४, वत्थं ५ पायं ६ च कंबलं ७ चेव । पाउंछणगं च तहा अट्टविहो रायपिंडो सो ॥१॥ असणा1 ईया चउरो ४, पाउंछण ५ वत्थ ६ पत्त ७ कंबलयं ८ । सूई ६ छुरी १० कन्नसोहणी ११, नहरणिया १२ सागारिपिंडो सो ॥२॥” इति श्रीबृहत्कल्पभाष्ये ॥ ६ ॥ ॥१८॥ Join Education Interladea For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416