Book Title: Vichar Ratnakar
Author(s): Kirtivijay, Dansuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 391
________________ इदानीं साधुः स्थंडिलादस्थंडिलं सङ्क्रामन् कस्मिन् काले केन प्रमार्जनं करोतीति लिख्यते उडुबद्धे रयहरणं, वासावासासु पायलेहणिया । वडउंबरे पिलक्खू , तस्स अलंभंमि चिंचिणिया ॥ ६॥ ऋतुबद्धे शीतोष्णकाले 'रयहरणं' ति रजोहरणेन प्रमार्जनं कृत्वा प्रयाति । वासासु पायलेहणिय' ति वर्षासु वर्षाकाले वर्षति सति पादलेखनीकया प्रमार्जनं कर्त्तव्यम् , सा च किंमयी भवति ? इत्यत आह-वडे ' ति वटमयी उदुंबरमयी प्लक्षमयी, तस्यालाभे-प्लक्षाप्राप्तौ चिञ्चिणिकामयी-अम्बिलिकामयीति । सा च कियत्प्रमाणा भवति ? इत्याह-बारसअंगुलदीहा, अंगुलमेगं तु होइ विछिन्ना । घणमसिणणिवणाविय, पुरिसे पुरिसे य पत्तेयं ॥६१॥ द्वादशाङ्गुलानि दीर्घा भवति, येन मध्ये हस्तग्रहे भवति, विस्तारस्त्वेकमङ्गुलं स्यात् । सा च धना-निविडा कार्या, मसृणा निर्बणा च निर्ग्रन्थिर्भवति । सा च किमेकैव भवति ? न इत्याह-पुरुषे पुरुषे च प्रत्येक एकैकस्य पृथगसौ भवति । इति श्रीओपनियुक्तिवृत्तौ ३१ पत्रे ॥ ७० ॥ केचिदज्ञानिनो विद्धं मुक्ताफलमचित्तमविद्धं तु सचित्तमिति वदन्ति परं तदनागमिकम् , आगमे हि विशेषानभिधानेन मौक्तिकानामचित्तेपूक्तत्वात् । तथा हि से किं तं अचित्ते अचित्ते सुवमरययमणिमोतिअसंखसिलप्पवालरयणाणं आये सेतं अचित्ते" इति श्रीअनुयोगद्वारसूत्रे ५१ पत्रे ॥ ७१ ॥ अथ कश्चित् पंडितमन्यो ब्रूते-यो मांसमश्नाति तस्य सम्यक्त्वं न भवत्येवेति, परं तदसङ्गतमेव प्रतिभासते, यतः केवलसम्यक्त्वधारिणो विरतेरभावात् । वृन्ताकाद्यभक्षमिव पिशितमपि नियमितं नास्ति, यदि नाश्नाति तदा तु भव्यमेव । अथ I www.jainelibrary.org Jnin Education M For Private Personal Use Only ona

Loading...

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416