SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ सर्वेष्वपि नियमेषु च सहसाऽनामोगाद्याकारचतुर्क चिन्त्यम्, तेनानाभोगादिनाऽनियमितबहुवस्तुग्रहणेऽपि नियमभङ्गो न । 12 स्यात्, किन्त्वतिचारमात्रम् । ज्ञात्वा त्वंशमात्रग्रहणेऽपि नियमभङ्ग एव जातु दुःकर्मपारवश्येन ज्ञात्वाऽपि भङ्गेऽग्रतो नियमः | पाल्य एव धर्मार्थिना । प्रतिपन्नपश्चमीचतुर्दश्यादितपोदिनेऽपि तिथ्यन्तरभ्रान्त्यादिना सचित्तजलपानताम्बूलभवणकियोजनादौ यदा तपोदिनं ज्ञातं तदनु मुखान्तःस्थमपि न गिलति, किं तु तत्यक्त्वा प्रासुकवारिणा मुखशुद्धिं कृत्वा तपोरीत्यैव तिष्ठति । तद्दिने च यदि भ्रान्त्या पूर्ण भुक्तस्तदा द्वितीयदिने दण्डनिमित्तं तत्तपः कार्यम् । समाप्तौ च तत्तपो वर्द्धमान कार्यम् । एवं चातिचार एव स्यान तु भङ्गः। तपोदिनज्ञानादनुसिक्थादिमात्रगिलने तु भङ्ग एव नरकादिहेतुः । दिनसंशये कल्प्याकम्प्यसंशये वा कल्प्यग्रहणेऽपि भङ्गादिदोषः । गाढमान्ये भूतादिदोषपारवश्ये सर्पदंशाद्यसमाधौ च यदि तत्तपः कषु न शक्नोति तथाऽपि चतुर्थाकारोच्चारान भङ्गः । एवं सर्वनियमेष्वपि भाव्यम् । इति श्राद्धविधौ ॥ २९ ॥ तयणु हरिसुन्नसंतो, कयमुहकोसो जिणिंदपडिमाणं । अवणेइ रयणिवसिय, निम्मल्लं लोमहत्थेणं ॥१॥ मुखकोशश्चाटपुटः प्रान्तनासानिश्वासनिरोधार्थ कार्यः । इति श्राद्धविधौ ।। ३० ॥ नित्यं पर्वसु वा वर्षमध्ये कियद्वारं वा खाद्यस्वाद्यादिसर्ववस्तूनां देवस्य गुरोश्च प्रदानपूर्व भोजनम् । इति श्राद्धविधौ ॥३१॥ तथा ऋणसम्बन्धे हि प्रायः कलहानिवृत्तेर्वैरवृद्धाद्यपि प्रतीतं तस्मादृणसम्बन्धस्तद्भव एव यथा कथञ्चिन्निाल्यः । अन्यत्रापि व्यवहारे निजस्वस्याचटने धर्मार्थमिदमिति चिन्त्यं धर्मार्थिना । अतः साधर्मिकैरेव सह मुख्यवृत्या व्यवहारो न्याय्यः । तत्पार्थे स्थितस्य निजस्वस्य धर्मोपयोगित्वसम्भवात् । म्लेच्छादिपालिभ्ये तु यत्र कोऽपि पुण्योपयोगो न स्यात् । Jain Education thational For Private & Personel Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy