________________
विचार
रत्नाकर
॥१८॥
तस्य प्राप्त्यसम्भवे व्युत्सर्जनमेव युक्तम् । व्युत्सर्गादनु प्राप्तं तु तत्सङ्घस्यैव धर्मार्थमय॑म् । एवं स्वकीयं गतमपि वस्तु शस्त्रादिप्राप्त्यसम्भवे व्युत्सृज्यम् । यथा तदुत्थं पापं न लगेत् । इत्थं युक्त्याऽनन्तभवसक्तं देहगेहकुटुम्बवित्तशस्त्रादि सर्व पापहेतु विवेकिना व्युत्सर्जनीयम् । अन्यथा तदुत्थदुरितस्यानन्तैरपि भवैरनिवृत्तेः । इति श्राद्धविधौ ॥ ३२॥
तथा यथा तथा शपथादिकं न विदध्यात् । विशिष्य च देवगुर्वादिविषयं तदभिहितम्-" अलिएण व सच्चेण व, चेइयसम्म करेइ जो मूढो । सो वमइ बोहिबीअं, अणंतसंसारिओ होइ । इति श्राद्धविधौ ॥ ३३ ॥
अथ निर्माल्यविचार:
यदि च प्राकेनापि पूजा कृता स्यात्तदा विशिष्टान्यपूजासामग्र्यभावे तां नोत्सारयेत्, भव्यानां तदर्शनजन्यपुण्यानुवन्धिपुण्यानुबन्धस्यान्तरायप्रसङ्गात् । किंतु तामेव विशेषयेत् । यबृहद्भाष्यम्-" अह पुत्वं चिय केणइ, हविज पूया कया सुविहएण । तंपि सविसेससोहं, जह जह होइ तहा तहा कुआ ॥ १॥ निम्मल्लंपि न एवं, भन्नइ निम्मल्ललक्खणाभावा । भोगविणटुं दब, निम्मलं बिति गीयत्था ॥ २ ॥ इतो चेव जिणाणं, पुणरवि आरोवणं कुणंति जहा । वत्थाभरणाईणं, जुगलिअकुंडलिअमाईणं ॥३॥ कहमबह एगाए, कासाइए जिणिंदपडिमाणं । अट्ठसयं लूहंता, विजयाई वलिया समए ॥४॥" यजिनबिंधारोपितं सत् विच्छायीभूतं विगंधं जातं दृश्यमानं च निःश्रीकं न भव्यजनमनःप्रमोदहेतु तनिर्माल्यं ब्रुवन्ति स्म बहुश्रुताः। इति सङ्घाचारवृत्तौ। प्रद्युम्नमूरिकृतविचारसारप्रकरणे त्वेवमुक्तम्-" चेइयदव्वं दुविह, पूयानिम्मलमेयो इत्थ । आयाणाई दब्वं, पूयारित्थं मुणेयव्वं ॥१॥ अक्खयफलबालिवत्थाइ, संतिअं जं पुणो दविणजायं । तं निम्मल्लं
॥१०॥
Jain Education L
a
For Private & Personel Use Only
| www.jainelibrary.org