________________
99
जाय, जिणकम्मंमि उपयोगो य ॥ २ ॥ ढौकिताचतादेर्निर्माल्यत्वमुक्तं परमन्यत्रागमे प्रकरणचरित्रादौ वा क्वापि न दृश्यते, वृद्धसम्प्रदायादिना क्वापि गच्छेऽपि नोपलभ्यते यत्र च ग्रामादावादानादिद्रव्यागमोपायो नास्ति तत्राक्षतवन्यादिद्रव्येणैव प्रतिमाः पूज्यमानाः सन्ति । अक्षतादेर्निर्माल्यत्वे तु तत्र प्रतिमापूजाऽपि कथं स्यात्तस्माद्भोग विनष्टस्यैव निर्मान्यत्वमुक्तम् | " भोगविण दव्वं, निम्मल्लं चिंति गीयत्था । " इत्यागमोक्तेरपि । तवं तु केवलिंगम्यम् । इति श्राद्धविधौ । एते सर्वेऽपि विचाराः श्राद्धविधौ दिनकृत्याधिकारे || ३४ ॥ एतेषामादौ अभिप्रायास्तु स्पष्टतमत्वादेव नोल्लेखिता इति ।
अथ केचित् सुविहितपरंपरावन्तोऽपि गृहस्थाः सदारम्भमच्यारम्भमिव गणयन्ति परं तेऽनवबुद्धा ज्ञेयाः, यतोऽसदारम्भवतः सदारम्भस्य सुतमां विहितत्वात् । अयमेवाभिप्रायो लिख्यते
राजादेस्तु विधापयितुः प्रचुरतरभाण्डागारनगर मण्डल गोकुलादिप्रदानं जिनभवनक्षेत्रे वपनम् । तथा जीर्णशीर्णानां चैत्यानां समारचनं नष्टभ्रष्टानां समुद्धरणं चेति । ननुं निरवद्यजिनधर्मसमाचरणचतुराणां जिनभवनबिम्बपूजादिकरणमनुचितमिव प्रतिभासते, षट्जीवनिकायविराधनाहेतुत्वात्तस्य भूमिखननदलपाटकानयनगर्त्तापूरणेष्टका चयन जलप्लावन वनस्पतिसकायविराधनामन्तरेण न हि तद्भवति । उच्यते -य आरम्भपरिग्रहप्रसक्तः कुटुम्ब परिपालननिमित्तं धनोपार्जनं करोति, तस्य धनोपार्जनं विफलं माभूदिति जिनभवनादौ धनव्ययः श्रेयानेव, न च धर्मार्थे धनोपार्जनं युक्तम् । यतः - " धर्मार्थं यस्य वित्तेहा, तस्यानीहा गरीयसी । प्रक्षालनाद्धि पङ्कस्य, दूरादस्पर्शनं वरम् " ।। इत्युक्तमेव, न च वापीकूपतडागादिखननवदशुभोदकं जिनभवनादिकरणम् । अपि तु सङ्घसमागमधर्मदेशना करणव्रतप्रतिपत्यादिकरणेन शुभोदर्कमेव । षट्जीव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org