________________
विचार
रत्नाकर
॥१७॥
कार्या। विधौ ॥ यथा की डकसरभोगावलकपाटप, देवष्यवा।
देवादिद्रव्योपभोगदोषप्रसङ्गात् , तस्मात्सद्य एव तदर्पणीयम् । यस्तु सद्योऽर्पयितुमशक्तस्तेनादावेव पचा पक्षाधवधिः स्फुट कार्यः । अवधिमध्ये च स्वयमर्ण्यम् , मार्गणादिविनापि अवध्युल्लङ्घने देवद्रव्योपभोगदोषः । उदाहणिकापि शीघ्रममग्नतया । तचिन्ताकारकैः खद्रव्यवद्देवादिद्रव्येऽपि कार्या । अन्यथा बहुविलम्बे दुर्मिचदेशभङ्गदौस्थ्यापातस्यापि सम्भवात् , बहूपक्रमेऽपि तदसिद्धेः, तथाऽपि च महादोषः इति श्राद्धविधौ ॥ २६ ॥
तथा देवादिदेयं सम्यगेवाये, न तु घृष्टकूटनाणकादिना यथा कथञ्चिद्देवद्रव्योपभोगदोषापत्तेः, तथा देवज्ञानसाधारणसम्बन्धिगृहादृक्षेत्रवाटिकापाषाणेष्टकाकाष्टवंशकवेल्लुकमृत्सुधादिकं श्रीखण्डकेसरभोगपुष्पादिकं पिङ्गानिकाचङ्गेरीधूपपात्रकलशवासकुम्पिकादिकं श्रीकरीचमरचन्द्रोदयझल्लरीभेर्यादिवाद्यसाबाणसिरावकजवनिकाकम्बलकपाटपट्टपट्टिकाकुण्डिकाकुम्भोरसकजलजलप्रदीपादिकं चैत्यशालाप्रणालाद्यागतजलाद्यपि च स्वकार्ये किमपि न व्यापार्यम् , देवद्रव्यवत्तदुपभोगस्यापि दुष्टत्वात् । चमरसाबाणादीनां मलिनीभवनत्रुटनपाटनादिसम्भवे त्वधिकदोषोऽपि । इति श्राद्धविधौ ॥ २७॥
तथा अन्त्यावस्थायां पित्रादीनां यन्मान्यते तत्सावधानत्वे गुरुश्राद्धादिबहुसमक्षमेव वाच्यं यद्भवनिमित्तमियदिनमध्ये इयद्ययिष्यामि तदनुमोदना भवद्भिः कार्येति, तदपि सद्यः सर्वज्ञातं व्ययितव्यम् । स्वनाम्ना व्यये स्तैन्यादिदोषः पुण्यस्थानेऽपि स च महर्षेरपि हीनताहेतुः । यदार्षम्-" तवतेणे वयतेणे, रूवतेणे अ जे नरे । आयारभावतेणे अ, कुबई देवकिविसं ॥१॥"धर्मव्ययश्च मुख्यवृत्या साधारण एव क्रियते । यथा यथा विशेषविलोक्यमानं धर्मस्थानं तत्र तदुपयोगः स्यात् । सप्तक्षेत्र्यां हि यत्सीदत् क्षेत्र स्यात्तदुपष्टम्भे भूयान् लाभो दृश्यते । इति श्राद्धविधौ ॥ २८ ॥
॥१७॥
Jain Education Interne
-
For Private & Personel Use Only
jainelibrary.org