SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ मुख्यवृत्त्या मासदेयं पृथगेव कार्यम्, गृहचैत्यनैवेद्यचोक्षादि तु देवगृहे मोच्यम् । अन्यथा गृहचैत्यद्रव्येणैव गृहचैत्यं पूजितं स्यात् न तु स्वद्रव्येण, तथा चानादरावज्ञादिदोषः न चैवं युक्तम्, स्वदेहगृहकुटुम्बाद्यर्थ भूयसोऽपि व्ययस्य गृहस्थेन करणात्, देवगृहे देवपूजाऽपि स्वद्रव्येणैव यथाशक्ति कार्या, न तु स्वगृहढौकितनैवेद्यादिविक्रयोत्थद्रव्येण देवसक्तपुष्पादिना वा प्रागुक्तदोषात् । तथा देवगृहागतं नैवेद्याक्षतादि स्ववस्तुवत् सम्यग् रक्षणीयम्, सम्यग्मूल्यादियुक्त्या च विक्रेयम्, न तु यथा तथा मोच्यम्, देवद्रव्यविनाशादिदोषापत्तेः । सर्वप्रयत्नेन रक्षणादिचिन्ताकरणे जातु चौराग्न्याधुपद्रवाईवद्रव्यादि विनश्यति तदा तु चिन्ताकर्ता निर्दोष एव, अवश्यभाविभावस्याप्रतिकार्यत्वात् । इति श्रीश्राद्धविधौ ॥ २४॥ ज्ञानद्रव्यं हि देवद्रव्यवन कल्पते एव श्राद्धानां, साधारणमपि सङ्घदत्तमेव कल्पते व्यापारयितुं न त्वन्यथा, सोनापि सप्तक्षेत्रीकार्ये एव व्यापार्यम् , न मार्गणादिभ्यो देयम् , साम्प्रतिकव्यवहारेण तु यद्गुरुन्युञ्छनादिसाधारणं कृतं स्यात्तस्य श्रावकश्राविकाणामपणे युक्तिरेव न दृश्यते, शालादिकार्ये तु तद्व्यापार्यते श्राद्धैः। एवं ज्ञानसक्तं कागदपत्रादिसाध्वाधर्पित श्राद्धेन स्वकार्ये न व्यापार्य स्वपुस्तिकायामपि न स्थाप्यं समधिकनिष्क्रयं विना । साध्वादिसक्तमुखवस्त्रिकादेरपि व्यापारणं न युज्यते गुरुद्रव्यत्वात् , स्थापनाचार्यजपमालादि तु प्रायः श्राद्धार्पणार्थ गुरुभिर्विह्रियते तेन गुर्वर्पिततद्हणे व्यवहारो दृश्यते, " इति श्राद्धविधौ ॥ २५ ॥ । तस्माद्देवज्ञानादेयं क्षणमपि न स्थाप्यं, अन्यस्यापि देयस्य प्रदाने विवेकिभिः सर्वथा न विलम्ब्यते, किं पुनर्देवज्ञानादेः। कायदा च यावता मालापरिधानादि कृतं तदा तावद्देवादिद्रव्यं जातं, तच्च कथमुपभुज्यते, कथं वा तल्लाभादि गृह्यते, पूर्वोक्त Jain Education int o nal For Private & Personel Use Only Halwww.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy