________________
विचार
शुद्धिव
॥१७॥
च लौकिक
मोतिथौ ।
उपवासपौरुष्यादिप्रत्याख्यानिनस्तु दन्तधावनादि विनाऽपि शुद्धिरेव, तपसो महाफलत्वात् । लोकेऽपि उपवासादौ । रत्नाकर दन्तकाष्ठादि विनापि देवार्चादिकरणात् । निषिद्धं च लौकिकशास्त्रेऽप्युपवासादौ दन्तकाष्ठादि । यदुक्तं विष्णुभक्तिचन्द्रोदये"प्रतिपदर्शषष्ठीषु, मध्यान्ते नवमीतिथौ । सातिदिवसे प्राप्ते, न कुर्याद्दन्तधावनम् ॥ १॥ उपवासे तथा श्राद्धे, न कुयोंदन्तधावनम् । दन्तानां काष्ठसंयोगो, हन्ति सप्तकुलानि वै ॥२॥” इति श्राद्धविधौ ॥ २१॥
तथाऽन्यतीर्थिका हि पश्चामृतमध्ये मधु गणयन्ति, श्रावकैस्तु तत्स्थाने इक्षुरसो ज्ञेय इति लिख्यते-ततो घृते १ क्षुरस २ दुग्ध ३ दधि ४ सुगन्धिजलैः ५ पञ्चामृतस्नात्रम् । इति श्राद्धविधौ ॥२॥
अथ भगवतोऽङ्गे तिलककरणानुक्रमो लिख्यते--
ततः सुयत्नवालककुश्चिकां व्यापार्य प्रक्षाल्याङ्गरूक्षणद्वयेन निर्जलतामापाद्याङ्ग्रिजानुकरांसेषु मुनि पूजा यथाक्रममित्युक्तेर्वक्ष्यमाणतया सृष्ट्या नवाङ्गेषु श्रीचन्दनादिनाऽर्चयेत् । केऽप्याहुः-पूर्व भाले तिलकं कृत्वा नवाङ्गपूजा कार्या। जिनप्रभमूरिकृतपूजाविधौ तु -“सरससुरहिचन्दणेण देवस्स दाहिणजाणु१ दाहिणखंधर निडाल३ वामखंध६ वामजाणु५ लक्खणेसु पंचसु हिअएण वा सह छस्सु वा अंगेसु पूर्य" । इति श्राद्धविधौ ॥ २३ ॥
तथा स्वगृहचैत्यढौकितचोक्षपूीफलनैवेद्यादिविक्रयोत्थं पुष्पभोगादि स्वगृहचैत्ये न व्यापार्यम्, नापि चैत्ये स्वयमारोप्यम्, किं तु सम्यक्स्वरूपमुक्त्वाऽर्चकादेः पार्थात् तद्योगाभावे सर्वेषां स्फुटं स्वरूपमुक्त्वा स्वयमारोपयेत्, अन्यथा मुधा जनप्रशंसादिदोषः। गृहचैत्यनैवेद्यादि चारामिकस्य प्रागुक्तमासदेयस्थाने नार्ण्यम्, आदावेव नैवेद्यार्पणेन मासदेयोक्तौ तु न दोषः, | H॥१७॥
Jain Education re
a l
For Private
Personel Use Only
www.jainelibrary.org