SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ जलादिभिः। धौते सिते वप्तीत द्वे, विशुद्धे धृपधुपिते ॥१॥" लोकेऽप्युक्तम्-"न कुर्यात्सन्धितं वस्त्रं, देवकर्मणि भूमिप!। न दग्धं न तु वैच्छिन्नं, परस्य तु न धारयेत् ॥ २॥ कटिस्पृष्टं तु यद्वस्त्रं, पुरीषं येन कारितम् । समूत्रं मैथुनं चाऽपि, तद्वस्त्रं परिवर्जयेत् ॥ ३॥ एकवस्त्रो न भुञ्जीत, न कुर्याद्देवतार्चनम् । न कञ्चुकं विना कार्या, देवार्चा स्त्रीजनेन तु ॥ ४॥" एवं। हि पुंसां वस्त्रद्वयं स्त्रीणां च वस्त्रत्रयं विना न कल्पते देवार्चादि । इति श्राद्धविधौ ॥१८॥ नच दुकूलं भोजनादिकरणेऽपि सर्वदा पवित्रमेवेति लोकोक्तिरत्र प्रमाणयितव्या, किं त्वन्यधौतिकवडुकूलमपि भोजनमलमूत्राशुचिस्पर्शवर्जनादिना सत्यापनीयम् व्यापारणानुसारेण पुनः पुनर्धावनधूपनादिना पावनीयम्, धौतिकं च स्वल्पवेलमेव व्यापार्य, प्रस्वेदश्लेष्मादि च धौतिकेन न स्फेटनीयम् , अपावित्र्यप्रसक्तेः, व्यापारितवस्त्रान्तरेभ्यश्च पृथग मोच्यम् । इति श्राद्धविधौ ॥ १६ ॥ एवं द्रव्यमावाभ्यां शुचिगृहे गृहचैत्ये-" आश्रयन् दक्षिणां शाखां, पुमान् योषित्वदक्षिणाम् । यत्नपूर्व प्रविश्यान्तदक्षिणेनाघ्रिणा ततः ॥१॥ सुगन्धिमधुरैर्द्रव्यैः, प्राङ्मुखो वाऽप्युदङ्मुखः । वामनाच्या प्रवृत्तायां, मौनवान् देवमर्चयेत् | ॥ २॥” इत्याधुक्तेन नैषेधिकीत्रयकरणप्रदक्षिणात्रयचिन्तनादिकेन विधिना शुचिपट्टकादौ पद्मासनादिसुखासनासीनश्चन्दनभाजनाचन्दनं स्थानान्तरे हस्ततले वा प्रक्षिप्य कृतभालतिलकहस्तकङ्कणः श्रीचन्दनचर्चितहस्तद्वयो जिनमर्हन्तं पूजयित्वा वक्ष्यमाणाभिरङ्गाग्रभावपूजाभिरभ्यर्च्य संवरणं प्रत्याख्यानं प्राक्कृतमकृतं वा यथाशक्ति करोति । इति श्राद्धविधौ ॥ २०॥ अथोपोषणे पोरुष्यादिप्रत्याख्याने वा देवमर्चयतो न दन्तधावनापेचेत्यक्षराणि लिख्यन्ते Jan Education a l For Private Personel Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy