Book Title: Vichar Ratnakar
Author(s): Kirtivijay, Dansuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
मुख्यवृत्त्या मासदेयं पृथगेव कार्यम्, गृहचैत्यनैवेद्यचोक्षादि तु देवगृहे मोच्यम् । अन्यथा गृहचैत्यद्रव्येणैव गृहचैत्यं पूजितं स्यात् न तु स्वद्रव्येण, तथा चानादरावज्ञादिदोषः न चैवं युक्तम्, स्वदेहगृहकुटुम्बाद्यर्थ भूयसोऽपि व्ययस्य गृहस्थेन करणात्, देवगृहे देवपूजाऽपि स्वद्रव्येणैव यथाशक्ति कार्या, न तु स्वगृहढौकितनैवेद्यादिविक्रयोत्थद्रव्येण देवसक्तपुष्पादिना वा प्रागुक्तदोषात् । तथा देवगृहागतं नैवेद्याक्षतादि स्ववस्तुवत् सम्यग् रक्षणीयम्, सम्यग्मूल्यादियुक्त्या च विक्रेयम्, न तु यथा तथा मोच्यम्, देवद्रव्यविनाशादिदोषापत्तेः । सर्वप्रयत्नेन रक्षणादिचिन्ताकरणे जातु चौराग्न्याधुपद्रवाईवद्रव्यादि विनश्यति तदा तु चिन्ताकर्ता निर्दोष एव, अवश्यभाविभावस्याप्रतिकार्यत्वात् । इति श्रीश्राद्धविधौ ॥ २४॥
ज्ञानद्रव्यं हि देवद्रव्यवन कल्पते एव श्राद्धानां, साधारणमपि सङ्घदत्तमेव कल्पते व्यापारयितुं न त्वन्यथा, सोनापि सप्तक्षेत्रीकार्ये एव व्यापार्यम् , न मार्गणादिभ्यो देयम् , साम्प्रतिकव्यवहारेण तु यद्गुरुन्युञ्छनादिसाधारणं कृतं स्यात्तस्य श्रावकश्राविकाणामपणे युक्तिरेव न दृश्यते, शालादिकार्ये तु तद्व्यापार्यते श्राद्धैः। एवं ज्ञानसक्तं कागदपत्रादिसाध्वाधर्पित श्राद्धेन स्वकार्ये न व्यापार्य स्वपुस्तिकायामपि न स्थाप्यं समधिकनिष्क्रयं विना । साध्वादिसक्तमुखवस्त्रिकादेरपि व्यापारणं
न युज्यते गुरुद्रव्यत्वात् , स्थापनाचार्यजपमालादि तु प्रायः श्राद्धार्पणार्थ गुरुभिर्विह्रियते तेन गुर्वर्पिततद्हणे व्यवहारो दृश्यते, " इति श्राद्धविधौ ॥ २५ ॥
। तस्माद्देवज्ञानादेयं क्षणमपि न स्थाप्यं, अन्यस्यापि देयस्य प्रदाने विवेकिभिः सर्वथा न विलम्ब्यते, किं पुनर्देवज्ञानादेः। कायदा च यावता मालापरिधानादि कृतं तदा तावद्देवादिद्रव्यं जातं, तच्च कथमुपभुज्यते, कथं वा तल्लाभादि गृह्यते, पूर्वोक्त
Jain Education int
o nal
For Private & Personel Use Only
Halwww.jainelibrary.org

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416