SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ दृष्टान्तो दृतिः शकटं च केवलमुत्तरगुणा अपि तत्र दर्शयितव्याः, उत्तरगुणेषु दृष्टान्तो मण्डपे सर्षपादि आदिशब्दाच्छिलादिपरिग्रहः, तत्रापि मूलगुणा अपि दर्शयितव्याः, इयमत्र भावना - एकेनापि मूलगुणप्रतिसेवनेन तत्क्षणादेव चारित्रभ्रंश उपजायते उत्तरगुणप्रतिसेवनायां पुनः कालेन, अत्र दृष्टान्तो दृतिकः तथा हि-यथा दृतिक उदकभृतः पञ्चमहाद्वारः, तेषां महाद्वाराणामेकस्मिन्नपि महाद्वारे मुत्कलीभूते तत्क्षणादेव रिक्तीभवति, सुचिरेण तु कालेन पूर्यते, एवं महाव्रतानामेकस्मिन्नपि महाव्रतेऽतिचर्यमाणे तत्क्षणादेव समस्तचारित्रभ्रंशो भवति एकमूलगुणघाते सर्वमूलगुणानां घातात्, तथा च गुरवो व्याचचते - एकत्रतभङ्गे सर्वव्रतभङ्ग इति एतन्निश्चयनयमतं, व्यवहारतः पुनरेकव्रतभङ्गे तदेवैकं भनं प्रतिपत्तव्यम्, शेषाणां तु भङ्गः क्रमेण, यदि प्रायश्चित्तप्रतिपच्या नानुसन्धत्ते, इति । श्रन्ये पुनराहुः – चतुर्थमहाव्रतभङ्गप्रतिसेवनेन तत्कालमेव सकलचारित्रभ्रंशः, शेषेषु पुनर्महाव्रतेष्वभीच्णप्रतिसेवनया महताऽतिचारेण वा वेदितव्यः । उत्तरगुणप्रतिसेवनायां पुनः कालेन चरणभ्रंशो यदि पुनः प्रायश्चित्तप्रतिपत्त्या नोज्ज्वालयति । एतदपि कुतोऽवसेयम् १ इति चेत्, उच्यतेशकटदृष्टान्तात् । तथा हि-शकटस्य मूलगुणा द्वे चक्रे, उद्धी अश्व, उत्तरगुणा बुन्नकीलकलोहपट्टादयः एतैर्मूलगुणैरुत्तरगुणैश्च सुसम्प्रयुक्तं सत् शकटं यथा भारवहनचमं भवति मार्गे च सुखं वहति तथा साधुरपि मूलगुणैरुत्तरगुणैश्च सुसम्प्रयुक्तः सन् अष्टादशशीलाङ्गसहस्र भारवहन क्षमो भवति, विशिष्टोत्तरोत्तरसंयमाध्यवसाय स्थानपथे च सुखं वहति । अथ शकटस्य मूलाङ्गानामेकमपि मूला भग्नं भवति तदा न भारवदनचमं नापि मार्गे प्रवर्त्तते । उत्तराङ्गैस्तु कैश्चिद्विनाऽपि कियत्कालं शकटं मारचमं भवति प्रवहति च मार्गे, कालेन पुनर्गच्छता अन्यान्यपरिशटनादयोग्यमेव तदुपजायते । एवमिहापि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy