SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ विचार ॥१६॥ मूलानामेकसिन्नपि मूलगुणे हते न साधनामष्टादशशीलाङ्गसहस्रभारवहनक्षमता नापि संयमश्रेणिपथे प्रवहनम् , उत्तरगुणैस्तु कैश्चित्प्रतिसेवितैरपि कियतं कालं चरणभारवहनक्षमता संयमश्रेणिपथे प्रवर्चनं च, कालेन पुनर्गच्छता तत्राप्यन्यान्यगुणप्रतिसेवनातो भवति समस्तचारित्रभ्रंशः, ततः शकटदृष्टान्तादुपपद्यते मूलगुणानां प्रतिसेवने एकस्यापि मूलगुणस्य नाशे तत्कालं चारित्रभ्रंशः उत्तरगुणनाशे कालक्रमेणेति । इतश्चैतदेव मण्डपसर्षपादिदृष्टान्तात् । तथा हि-एरण्डादिमण्डपे ययेको द्वौ बहवो वा सर्पपाः उपलक्षणमेतत्-तिलतन्दुलादयो वा प्रक्षिप्यन्ते तथाऽपि मण्डपो न भङ्गमापद्यते अतिप्रभूतैस्त्वाढकादिसङ्ख्याकैर्भज्यते, अथ तत्र महती शिला प्रक्षिप्यते तदा तयैकयाऽपि तत्क्षणादेव ध्वंसमुपयाति, एवं चारित्रमण्डपोऽप्येकद्वित्र्यादिभिरुत्तरगुणैरतिचर्यमाणैन भङ्गमापद्यते बहुभिस्तु कालक्रमेणातिचर्यमाणैर्भज्यते, शिलाकल्पेन पुनरेकस्यापि मूलगुणस्यातिचारेण तत्कालं ध्वंसमुपगच्छतीति । इति श्रीव्यवहारभाष्यवृत्ती प्रथमोद्देशके ६५६ प्रतौ १२७ पत्रे ॥३॥ अथाऽऽलोचयतो गुणा दोषाश्च लिख्यन्ते___ "आलोयंतो एत्तो, दसहि गुणेहिं तु होइ उववेओ। जाइकुलविणयणाणे दंसणचरणेहि संपनो (॥१॥) खते दंतेऽमाई अपच्छतावी य होति बोधब्वे । आलोयणाए दोसा, एत्तो वुच्छं समासेणं ॥ २॥ इत उद्धं आलोचयनालोचको वक्तव्यः, स च दशभिर्गुणैरुपपेत एव-युक्त एव भवति, तुरेवकारार्थो भिन्नक्रमत्वादत्र सम्बध्यते । तानेव गुणानुपदर्शयति'जाई' इत्यादि, जातिसम्पन्नः, कुलसम्पन्नः, मातृपक्षो जातिः, पितृपक्षः कुलम् , विनयसम्पन्नः, ज्ञानसम्पन्नः, दर्शनसम्पन्नः, चरणसम्पन्नः, चान्तः, दान्तः, अमायी, अपश्चात्तापी च बोद्धव्यः । अथ कस्मादालोचकस्यैतावान् गुणसमूहोऽन्विप्यते ! ॥१६शा Jain Education Inter For Private Personal Use Only Twww.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy