SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ लोचितं वा चाहमिति च जानी जयगालोचयति, उच्यते-जातिसम्पन्नः प्रायोऽकृत्यं न करोति अथ कथमपि कृतं तर्हि सम्यगालोचयति, कुलसम्पन्नः प्रतिपनप्रायश्चित्तनिर्वाहक उपजायते, विनयसम्पन्नो निषद्यादानादिकं विनयं सर्व करोति सम्यगालोचयति, ज्ञानसम्पन्नः श्रुतानुसारेण सम्यगालोचयति, अमुकश्रुतेन मे दत्तं प्रायश्चित्तमतः शुद्धोऽहमिति च जानीते, दर्शनसम्पन्नः प्रायश्चित्ताच्छुद्धिं श्रद्धत्ते, चरणसम्पन्नःप्रायोतिचारं पुनर्न करोति अनालोचितं वा चारित्रं न शुध्यतीति सम्यगालोचयति, चान्तो नाम क्षमायुक्तः स कस्मिंश्चित्प्रयोजने गुर्वादिमिः खरपरुषमपि भणितः सम्यक् प्रतिपद्यते यदपि च प्रायश्चित्तमारोपितं तदपि सम्यग् वहति, दान्तो नाम इन्द्रियनोइन्द्रिय-16 जयसम्पन्नः स प्रायश्चित्ततपः सम्यक्करोति, मायाऽस्यास्तीति मायी न मायी अमायी सोप्रतिकुञ्चितमालोचयति, अपश्चात्तापी नाम यः पश्चात् परितापं न करोति हा दुष्टु कृतं मया यदालोचितमिदानी प्रायश्चित्ततपः कथं करिष्यामीति किं त्वेवं मन्यतेकृतपुण्योऽहं यत्प्रायश्चित्तं प्रतिपन्नवानिति । अत ऊर्ध्वमालोचनाया दोषान् समासेन सझेपेण वक्ष्ये । प्रतिज्ञातमेव निर्वाहयति -आकंपित्ताऽणुमाणित्ता, (आकंपिन अणुमाणित्र) जं दि8 बायरं च सुहुमंवा । छण्णं सदाउलगं, बहुजणमव्वत्ततस्सेवी (॥२॥) आवर्जित सन्नाचार्यः स्तोकमेवं प्रायश्चित्तं दास्यतीति बुद्ध्या चैयावृत्यकरणादिभिरालोचनाचार्यमाकम्प्य-आराध्य यत् आलोचयति, एष आलोचनादोषः१, तथा अनुमान्यानुमानं कृत्वा लघुतरापराधनिवेदनतो मृदुदण्डप्रदायकत्वादिस्वरूपमाचार्यस्याकलय्य यदालोचयत्येषोऽप्यालोचनादोषः २, तथा यदृष्टमपराधजातं क्रियमाणमाचार्यादिना तदेवालोचयति नापरमिति तृतीय बालोचनादोषः ३, 'बायरं च ' ति बादरं दोषजातमालोचयति न सूक्ष्म, तनावज्ञापरत्वात् एष चतुर्थः ४, 'सुहुमं व ' त्ति सूक्ष्मं वा दोषजातमालोचयति न बादरम् , यः सूक्ष्ममालोचयति स कथं बादरं नालोचयतीत्येवंरूपभावसम्पादनार्थमाचार्यस्यैष S Jain Education Intema For Private & Personal Use Only a w.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy