________________
विचार-
॥१६६॥
पञ्चम आलोचनादोषः ५, तथा 'छमं 'ति प्रच्छन्नमालोचयति किमुक्तं भवति ? लजालुतामुपदापराधानल्पशब्देन तथा- भारत्नाकर ऽऽलोचयति यथा केवलमात्मैव शृणोति, न गुरुरित्येष षष्ठ मालोचनादोषः, 'सदाउलं 'ति शब्दाकुलं बृहच्छब्दं यथा भवत्येवमालोचयति इदमुक्तं भवति-महता शब्देन तथाऽऽलोचयति यथाऽन्येऽप्यगीतार्थादयः शृण्वन्तीत्येष सप्तम आलोचनादोषः ७, तथा 'बहुजण 'त्ति बहुजनमध्ये यदालोचनं तद्बहुजनम् , अथवा बहवो जना आलोचनागुरवो यत्र तबहुजनमालोचनम् , किमुक्तं भवति ? एकस्य पुरत आलोच्य तदेवापराधजातमन्यस्यापि पुरत आलोचयति एषोऽष्टम आलोचनादोषः ८, 'अवत्त 'त्ति अव्यक्तोऽगीतार्थः, तस्याव्यक्तस्य गुरोः पुरतो यदपराधालोचनं तदव्यक्तम् , एष नवम आलोचनादोषः ९, । 'तस्सेवि 'त्ति शिष्यो यमपराधमालोचयिष्यति तमेव सेवते यो गुरुरसौ तत्सेवी तस्य समीपे यदपराधालोचनं एष ममातिचारेण तुल्यस्ततो न किमपि मे प्रायश्चित्तं दास्यत्यन्पं वा दास्यति न च मां खरंटयिष्यते यथा विरूपं कृतं त्वयेति बुद्ध्या तदालोचनं तत्सेवि, एष दशम आलोचनादोषः १० । इति श्रीव्यवहारभाष्यवृत्तौ प्रथमोद्देशके १५६ प्रतौ १४१ पत्रे ॥४॥
अथ साधूनामपि योगादितपोऽनुष्ठानपरिसमाप्ताववश्यं नन्द्यादिमहोत्सवः कर्त्तव्य एव, न च किमिदं निर्ग्रन्थानामुत्सव- । करणमित्यादिशङ्का कार्या, जिनशासनोन्नतिकरत्वाच्छास्त्रोक्तत्वाच्च । तथा हि-इत्युक्तः प्रतिमाप्रतिपत्तिविधिः, इदानीं समाप्तिविधिमाह-तीरियउम्भामणतो य, दरिसणं साहुसनिमप्पाहे । दंडियभोइयअसती, सावगसंघो व सकारं ॥ (१)॥ तीरितायां समाप्तायां प्रतिमायामुत्पावन्येन भ्रमन्त्युद्धमा:-भिक्षाचरास्तेषां नियोगो व्यापारो यत्र स उद्भमैकनियोगो ग्रामस्तत्र दर्शनमात्मनः प्रकटनं करोति, ततः साधु-संयतं संजिन-सम्यग्दृष्टिं श्रावकं वा 'अप्पाहे' त्ति संदेशयति, ततो दंडिनो-राज्ञो निवेदनं
॥१६६॥
यमपराभप्रायश्चित्तं दास्यत्ययं इति श्रव्यवहारमाध्यत्तिषण एव, न च
Jain Education in
For Private
Personel Use Only
www.jainelibrary.org