________________
स सत्कारं करोति, तदभावे भोजिकः, तस्याप्यभावे श्रावकवर्गः, तस्याप्यभावे सच:-साधुसाध्वीवर्गः । इयमत्र भावनाप्रतिमायां समाप्तायां यस्मिन् प्रामे प्रत्यासन्ने बहवो भिक्षाचराः साधवश्च समागच्छन्ति, तत्रागत्यात्मानं दर्शयति दर्शयंश्च यं साधु श्रावकं वा पश्यति तस्य सन्देशं कथयति यथा-समापिता मया प्रतिमा ततोऽहमागत इति । तत्राचार्या राज्ञो निवेदयन्ति यथा-अमुको महातपस्वी समाप्ततपःकर्माभूदिति स महता सत्कारेण गच्छे प्रवेशनीय इति । ततः स राजा तस्य सत्कारं कारयितव्यः, तदभावेऽधिकृतस्य ग्रामस्य नगरस्य वा नायकः, तदभावे समृद्धः श्रावकवर्गः, तदभावे साधुसाध्वीवर्गप्रभृतिकः सङ्घो यथाशक्ति सत्कारं करोति । सत्कारो नाम तस्योपरि चन्द्रोदयधारणं, नान्दीतूर्यास्फालनं, सुगन्धवासक्षेपणमित्यादि, एवंरूपेण सत्कारेण गच्छं प्रवेशयेत् । सत्कारेण प्रवेशनायामिमे गुणाः-उम्भावणा पवयणे, सद्धाजणणं तहेव बहुमायो । ओहावणा कुतित्थे, जीअं तह तित्थवुड्डी य ॥ (२)। प्रवेशसत्कारेण प्रवचने-प्रवचनस्योद्धाजनाप्रावन्येन प्रकाशनं भवति, तथाऽन्येषां बहूनां साधूनां श्रद्धाजननं यथा वयमप्येवं कुर्मो येन महती शासनस्य प्रभावना भवति, तथा श्रावकश्राविकाणामन्येषां च बहुमानमुपजायते शासनस्योपरि यथा अहो महाप्रतापिपारमेश्वरं शासनं, यत्रेदशा महातपस्विन इति, तथा कुतीर्थे जातावेकवचनं, कृतीर्थानामपभ्राजना-हीलना, तत्रेदृशां महासत्वानां तपखिनामभावात् . तथा जीतमेतत्-कल्प एष यथा समाप्तप्रतिमानुष्ठानानां सत्करणीय इति, तथा तीर्थवृद्धिश्च । एवं प्रवचनस्यातिशयमुदीक्ष्यमाणा बहवः संसाराद्विरज्यन्ते, विरक्ताश्च परित्यक्तसङ्गाः प्रव्रज्यां प्रतिपद्यन्ते, ततो भवति तीर्थप्रवृद्धिरिति । इति श्रीव्यवहारभाष्यवृत्तौ प्रथमोद्देशके ६५६ प्रतौ १६५ पत्रे ॥ ५ ॥
Jain Education
anal
For Private & Personal Use Only
www.jainelibrary.org