________________
विचार
रत्नाकार
११६७॥
अथाचार्यैः शरीरचिन्तार्थ बहिर्न गन्तव्यम्, इत्यचराणि लिख्यन्ते
बहिगमणे चउगुरुगा, आणादी वाणिए य मिच्छत्तं । पडियरणमणाभोगे, खरमुहि मरुए तिरिक्खादी ।। (१) ।। आचार्यो यदि विचारभूमि बहिर्गच्छति ततः प्रायश्चित्तं चत्वारो गुरुकाः, आज्ञादयश्च दोषाः। तथा वाणिए य मिच्छत्तं' ति वणिजि पूर्वमभ्युत्थानं कृतवति, पश्चादकुर्वति केषाश्चिन्मिथ्यात्वमुपजायते, इयमत्र भावना-प्राचार्य संज्ञाभूमिं व्रजन्तं ततः प्रत्यागच्छन्तं च दृष्ट्वा वणिजो निजनिजापणस्था अभ्युत्थानं कृतवन्तः, तं च तथा वणिजा बहुमानेनाभ्युत्थानं दृष्ट्वा केचिदन्ये मन्यन्ते गुणवानेष आचार्यो येन वणिज एवमेनमम्युत्तिष्ठन्ति तस्मादस्माकमपि पूज्य इति तेऽपि पूजयन्ति । यदा त्वाचार्यः कदाचिद्वौ वारौ संज्ञाभूमिं व्रजति तदा चतुरो वारान् गमने प्रत्यागमने चोत्थातव्यं ते चालस्यं मन्यमाना अभ्युत्थानं भविष्यतीति कृत्वा आचार्य दृष्ट्वाऽन्यतो मुखं कुर्वन्ति तांश्च तथा कुर्वतो दृष्ट्वाऽन्ये चिन्तयन्ति नूनमेष प्रमादी जातो, ज्ञातोपि गुणवानपि यदीदृशः पतति तर्हि न किञ्चिदिति ते मिथ्यात्वं गच्छन्ति । तथा आचार्य लोकेन पूज्यमानं दृष्ट्रा मरुके ब्राह्मणस्य मारणबुद्ध्या प्रतिचरणं भवति, ततः संज्ञाभूमि गतं विजने प्रदेशे मारयेत् । तथा खरमुखीं-नपुंसकी दासी वा प्रापयित्वा उड्डाहं कुर्यात् । अनाभोगेन वा वनगहने प्रविष्टे तिर्यगादौ कुलटादौ च प्रविशयामात्मपरोभयसमुत्था दोषा एष गाथासङ्केपार्थः । इति श्रीव्यवहारमाध्यवृत्तौ षष्ठोद्देशके ६५६ प्रतौ ४४१ पत्रे ॥६॥ ____ आचार्यो हि भगवांस्तीर्थङ्करकल्पः, ततस्तेन गोचरचर्यायां न गन्तव्यम्, यदि याति तर्हि प्रायश्चित्तम्, तं गच्छन्तं वा यदि गीतार्थो भिक्षुर्वा न निषेधयति तर्हि तयोरपि प्रायश्चित्तमित्यभिप्रायो लिख्यते
॥१६७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org