SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ विचार- विहारं कार्यते, व्यवहारेऽपि यदि पराजितो भवति ततो द्वितीयवेलं दण्च्यते, एष दृष्टान्तो दार्शन्तिकयोजनमाह-' इय' रत्नाकर। इत्यादि । एवमुक्तप्रकारेण लोकोत्तरेऽपि वारत्रयमालोचनादापनेन यदि कुञ्चितो भावो ज्ञातो भवति ततस्तं कुश्चितभावं॥१६४॥ H कुटिलभावं पूर्वमाचार्यो निर्भर्सयति-किमित्यालोचनायामुपस्थितोऽपि मृषा वदसि । ततो 'दंडो' इति प्रथमतो माया निष्पन्नेन मासगुरुप्रायश्चित्तेन दंडयति । पश्चाद्यदापनं मासिकं तेन द्वितीयवेलं दंडयति । अथ वारत्रयमालोचनादानेऽपि कथं श्रुतव्यवहारिणो मायामन्तर्गतां लक्षयन्ति । तत आह-आगारेहि सरेहि य, पुव्वावरवाहयाहि य गिराहिं । नाउं कुंचियभावं, परोक्खनाणी ववहरंति ।। २० । आकाराः-शरीरगता भावविशेषाः, तत्र यः शुद्धस्तस्य सर्वेऽप्याकारा संविग्नभावोपदर्शका भवन्ति, इतरस्य तु न तादृशाः, स्वरा अप्यालोचयतः शुद्धस्य व्यक्ता विस्पष्टा अक्षुभिताश्च निस्सरन्ति, इतरस्य त्वव्यक्ता-अविस्पष्टाः शुभितगद्गदाश्च । तथा शुद्धस्य वाणी पूर्वापराव्याहता इतरस्य तु पूर्वापरविसंवादिनी, तत एवं परोक्षज्ञानिनः श्रुतव्यवहारिण आकारैः स्वरैः पूर्वापरव्याहताभिश्च गीर्भिस्तस्यालोचकस्य कुञ्चितभावं-कुटिलभावं ज्ञात्वा तथा व्यवहरति पूर्व मायाप्रत्ययेन प्रायश्चित्तदण्डेन दण्डयति, पश्चादपराधप्रत्ययेन प्रायश्चित्तदण्डेनेति भावः इति श्रीव्यवहारप्रथमोद्देशके ६५९ प्रतौ ८४ पत्रे ॥२॥ निश्चयतस्तु एकस्मिन् महाव्रते भग्ने सर्वाण्यपि भग्नानि, व्यवहारतस्तु यद्विराद्धं तदेव भग्नमित्यभिप्रायो लिख्यते अथ मूलगुणप्रतिसेवनायां उत्तरगुणप्रतिसेवनायां वा चारित्रभ्रंशे अस्ति कश्चिद्विशेषः उत नास्ति ? अस्तीति ब्रूमः, NI कोऽसौ इत्याह-मूलगुणदइयसगडे, उत्तरगुणमंडवे सरिसवाई । छक्कायरक्खणट्ठा, दोसुवि सुद्धे चरणसुद्धी ॥ १॥ मूलगुणेषु ॥१६॥ Jain Education in For Private & Personel Use Only Alwww.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy