Book Title: Vichar Ratnakar
Author(s): Kirtivijay, Dansuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
विचार
॥ १७० ॥
Jain Education Inter
पाध्यायश्री कीर्त्तिविजयगाणिसमुच्चिते श्रीविचाररत्नाकरे विशेषसमुच्चयापरनाम्नि अपरतटे व्यवहारपश्च कन्पविचाराः समाप्ताः ॥ ॥ समाप्तं चेदं छेदग्रन्थविचारसमुच्चयनामाऽपरतटम् ॥
14000100-**
अनेकसिद्धान्तविचाररत्नरम्ये गुरूपासनमार्गलभ्ये । विचाररत्नाकरनामशास्त्रेऽपरं तटं प्राप्तमिदं समाप्तिम् ॥ १ ॥ येन प्रवचनमेतद्विहितं सहितं हितोपदेशेन । तमहितरहितं सुरनरमहितं श्रीजिनपर्ति स्तौमि ॥ १ ॥
अथ निरनुक्रमं प्रकीर्णकप्रकरणादिसङ्कीर्णविचारा लिख्यन्ते
अथ ये केचिन्मिथ्थात्विनां मार्गानुसारि कर्त्तव्यमपि नानुमोदयन्ति ते सिद्धान्तवाह्या ज्ञेयाः, विप्रतीपभाविस्वात् । तथा हिअहवा सव्वं चि वीयरायवयणाणुसारि जं सुकटं । कालत्तएवि तिविहं, अणुमोएमो तयं सव्वं ॥ अथवेति सामान्यरूपप्रकारदर्शनो । चिय एवार्थे ततः सर्वमेव वीतरागवचनानुसारि - जिनमतानुयायि यत्सुकृतं जिनभवनविम्बकारणतत्प्रतिष्ठासिद्धान्त पुस्तकलेखन तीर्थयात्रा श्रीसङ्घवात्सल्यजिनशासनप्रभावनाज्ञानाद्युपष्टम्भधर्मसान्निध्यक्षमामार्दवसंवेगादिरूपं मिथ्याडगूसम्बन्ध्यपि मार्गानुसारि कृत्यं कालत्रयेऽपि त्रिविधं मनोवाक्कायैः कृतं कारितमनुमतं च यद्भुद्भवति भविष्यति चेति तत् इति तच्छब्दात् ' त्यादिसर्वादेः स्वरेष्वन्त्यात्पूर्वोऽक् ' ( ७ - ३ - २९ ) इत्यादिसूत्रेण स्वार्थेऽक्प्रत्यये रूपं तदित्यर्थः तत्सर्वं निरवशेषमनुमोदयामो- अनुमन्यामहे हर्षगोचरतां प्रापयाम इत्यर्थः । बहुवचनं चात्र पूर्वोक्तचतुः शरणप्रतिपच्या उपार्जितपुण्यसम्भारत्वेन स्वात्मनि बहुमानसूचनार्थम् । इति श्रीचतुः शरणप्रकीर्णके ५८ गाथायाम् ॥ १ ॥
तथाऽऽराधनापताकामामपि -
For Private & Personal Use Only
रत्नाकरः
॥ १७० ॥
www.jainelibrary.org

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416