________________
१५२
द्वितीयाविभक्तिविचारः ।
यथा गौर्दुह्यते दुग्धा वा गौणकर्माविवक्षणे तु प्रधानकर्माभिधीयते यथा पयांसि दुह्यन्ते दुग्धानि वा न्यादिभ्यः पञ्चभ्यः कर्मप्रत्ययेन गुणकर्मणो विवक्षणे वा प्रधानक मैवाभिधीयते यथा श्रजा ग्रामं नीयते अविवक्षणे तु यथा अजा नीयते एवं राजा कनकं या च्यते याचितो वा अत एव राजा सुतं याचित इति यथा वा कनकं याच्यते याचितं वा एवं व्रजो गामवरुह्यते अवरुडो वा यथा वा गौरवरुध्यते श्रवरुद्धा वाएवं जानपदः पन्थानं यते पृष्टो वा प्रच्छि पर्यायश्चदिवध्यः अत एवाहमपीदमचोदद्यं चोदो इति । एवं तरुः पुष्पमवचीयते श्रवचितो वा यथा वा पुष्यमवचीयते अवचितं वा अत एव अवचितकुसुमा विहाय वल्लरिति एवं शिष्यो धर्ममुच्यते उक्तो वा एवं शिष्यो धर्ममनुशास्यते अनुशासितो वा यथा वा धर्मोऽ नुशास्यते अनुशासितो वा एवमाचिकः शतं जौयते जितो वा यथा वा शतं जीयते जितं वा अत एव कृतप्रणामस्य महीं महीभुजे जितां सपत्नेन निवेदयिष्यत इति एवं गर्गः शतं दण्ड्यते दण्डितं वा एवं चौरनिधि: कौस्तुभं मध्यते मथितो वा अत एव देवासुरैरमृतमम्बुनिधि र्ममन्थे इति यथा वा कौस्तुतो मध्यते मथितो वा एवं तगडुल श्रोदनं पच्यते पक्को वा यथा वा चोदनः पच्यते पक्को वा एवं वणिग्विरण्यं मुष्यते मुषितो वा अत एव रत्नानि मुषितो वणिगिति यथा वा कनकं मुष्यते मुषितं वा एवं भारो ग्राममुद्यते ऊढो वा एवं परधनं स्वगृहं क्रियते हृतं वा यथा वा परधनं जयते