Book Title: Vibhaktarthanirnaya
Author(s): Giridhar Upadhyay, Jivnath Mishr
Publisher: Babu Haridas Gupta
View full book text
________________
विभक्त्यर्थनिर्णये। मत्वं प्रतीयते हितीये विप्रस्य गां दीव्यति विप्रो गां दोव्यतीत्यत्र हितौयया षष्ठ्यपवाद इति । तिङन्तविशेषस्य कर्मणि षौं ज्ञापयति । "प्रेष्यब्रुवोहविषो देवतासंप्रदाने” इति सूत्रम् । इष्यतेर्दैवादि कस्य लोगमध्यमपुरुषैकवचनं प्रेष्य इति तत्साहचर्याङ्गविरपि तथाभूत एव गृह्यते इति प्रष्यब्रूहिइत्येतयोः तिङन्तयोः कर्मणि हविषः षष्ठी भवति देवतायां संप्रदाने सतौत्यर्थकं हविषो हविर्वाचक शब्दादित्यर्थः । अग्नये छागस्य हविषो वपाया मेदसो वा प्रथ्य अग्नये छागस्य हविषो वपाया मेदसो वाऽनुहोत्यादौ प्रपूर्वकस्येष्यतरमुपूर्वकस्य ब्रुवेश्च दानमर्थः षष्यास्तु कर्मत्वमर्थस्तथा चाग्निसंप्रदानताकच्छागकर्मताकाशंसाविषयदानकर्तत्ववांस्त्वमित्यादिरन्वय बोध: प्रेष्यबोरित्युपादानात् अग्नये छागं हविर्वपां मेदो वा जुहुधीत्यादौ धात्वन्तरकर्मणि न षष्ठी । हविष इत्युपादानादग्नये गोमयानि प्रेष्येत्यादौ कर्मणि न षष्ठी । देवतासंप्रदान इत्युपादानात् माण काय पुरोडाशं प्रेध्येत्यादौ कर्मणि न षष्ठौ । “हविषः प्रस्थित स्थ प्रतिषेधो वक्तव्य"इति वार्तिकम् प्रस्थितशब्दसमानाधिकरणहवि:शब्दात्षष्ठौं निषेधति । यथा इन्द्राग्निभ्यां छागं हविर्वपां भेदः प्रस्थितं प्रेष्येत्यादौ प्रस्थितं प्रकर्षण स्थितं प्रकर्षस्तु प्रोक्षणाभिमन्त्रणयथोक्त स्थानकत्वं बोध्यमिति । संप्रदान% षष्ठौं ज्ञापयति । चतुर्थ्यर्थे बहुलं छन्दसि इति सूत्र छन्दसि चतुर्थ्यर्थे संप्रदानत्वादौ षष्ठौ विभक्तिभवति बहुलमित्युपादानात् चतुर्थों व चि-'

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488