Book Title: Vibhaktarthanirnaya
Author(s): Giridhar Upadhyay, Jivnath Mishr
Publisher: Babu Haridas Gupta
View full book text
________________
सप्तमीविभक्तिविचारः। वच्छेदेन शरदादित्तित्वस्यान्वयार्थ कालभावयोरिति कुमारसवेग काले सप्तम्या विध्यन्तरमन्यथा शरदि पुष्यन्ति पलाशा इत्यादिप्रयोगप्रसङ्गः शरत्तित्व स्य पलाशे पुष्पे वा सत्त्वादिति कालापैसक्तम् । तदसत् । पुष्यत्यर्थे पुष्पोत्पत्तौ शरत्तित्वस्यान्वयोपगमादेव दशिंतप्रयोगवारणसम्भवात् कारकान्यसप्तम्यर्थस्य क्रियायां साक्षादन्वयोपगमात् शुक्तौ रजतत्वं जानातीत्यादौ विशेष्यतासंसर्गावच्छिन्नस्य शक्त्याधेयत्वादरिव ज्ञानादौ तथा च न काऽप्यनुपपत्तिरिति काले सप्तमौविध्यन्तरं निष्प्रामाणिकमेव शरदि पुष्यन्ति सप्तच्छदा इत्यत्र पुष्यतेः पुष्पोत्पत्तिरर्थस्तिङः पुष्पघटितपरम्परामंसर्गावच्छिन्नाश्रयत्वमर्थः सप्तम्या: कालिकसंवधावच्छिन्नाधेयत्वमर्थः तथा च शरत्तेः पुष्पोत्पत्तेरेवाश्रयाः सातच्छदा इत्यन्वयबोधः । एवं शरदि पुष्यन्ति पद्मिन्य इत्यादावस्यनया शैत्यान्वयो बोध्य इति न च पुष्यते: पुष्पमर्थस्तिङ आश्रयत्वमत एव सप्तम्या उ. त्पत्तिरर्थ इति वाच्यम् । तथा सति माल्यौं गुणो वा पुष्य तौति प्रयोगापत्तेः न च पुष्यते: पुष्पन्तिड उत्पत्तिरर्थ उत्पत्त: परम्परता प्रथमान्तार्थे सप्तम्यर्थस्थाधेयत्वस्योत्पत्तावन्वय इति वाच्यम् । सुबर्थतियथोः परस्परान्वयस्य सर्ववानभ्युपेतत्वात् तिर्थस्य प्रथमान्तार्थे साक्षादेवान्वयस्य व्युत्पन्नत्वाद् अन्यथा ज्ञानं सुखं द्वेषो वा पचतीतिप्रयोगप्रङ गात् तिङर्थकृतेः सामानाधिकरण्येन ज्ञानादेरन्वयसम्भवादिति पूर्वोक्तरौतिः श्रेयसौति । षश्या सह वैकल्पिकी सप्तमौं जापयति । “षष्ठी

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488