Book Title: Vibhaktarthanirnaya
Author(s): Giridhar Upadhyay, Jivnath Mishr
Publisher: Babu Haridas Gupta
View full book text
________________
सप्तमीविभक्तिविचारः। वतीत्यादिप्रयोगवारणं क्षत्रियत्वादावन्वयितावच्छेदके ब्राह्मणत्वादिप्रकृत्यर्थतावच्छेदकव्याप्यत्वविरहाद्दूत्थं च निर्धारणे प्रकृत्यर्थतावच्छेदकमामानाधिकरण्यप्रवेशो व्यर्थ इति चेन्न यतो यत्र प्रकृत्यर्थतावच्छेदकान्वयितावच्छेदकयोः साजात्यं तवैव साक्षाद्याप्यत्वं तन्त्रं न तु तयो(जात्ये साजात्यं तु जातित्वादिना बो- , ध्यमिति द्रव्याणां क्षत्रिय इत्यादिको न प्रयोगः वैजात्ये तु न साक्षायाप्तता तन्वं यथा गवां गोषु वा कृष्णा संपन्नक्षीरतमेत्यादी अब प्रकृत्यर्थतावच्छेदकस्य गोत्वस्यान्वयितावच्छेद के कृष्णगुणे साजात्यविरहात् न साक्षाग्रप्यताविरहेणान्वयविरह इति । एवं च हूंसानां कृष्णः सुचेष्टः नराणां चतुष्पादो मदोत्कट इत्यादिप्रयोगवारणार्थं प्रकृत्यर्थतावच्छेदकसामानाधिकरण्यस्य निर्धारणे प्रवेशः अन्यथा हंसादित्तिभेदप्रतियोगित्वस्य कृष्णगुणादिमति सत्त्वादर्शितप्रयोगस्य दुवीरताऽऽपत्तेः तदिदं निर्धारणं जात्या गुणेन क्रिययाऽन्येनापि धर्मेण भवति तत्र जात्या नराणां नरेषु बा क्षत्रिय इत्यादिकं गुणेन गवां गोषु कृष्णेत्यादिक क्रियया गवां गोषु वा वत्सं धावन्ती दुग्धवतीत्यादिकं अत्र वत्मकर्मकधावनक्रियावत्त्वमन्वयितावच्छेदक गोनिष्ठभेदप्रतियोगितावच्छेदकमिति अन्येन प्राणिनां प्राणिषु वा चतुष्पादः पशुरित्यादिकमुदाहरणं बोध्यं जातिकियागुणभिन्नमत्र चतुःसंख्यकपादसमवेतत्वमन्वयितोवच्छेदक प्रागिनिष्ठभेदस्य प्रतियोगितावच्छेदकमिति । अत एव काशिकायां जातिगुणक्रियाभि

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488