Book Title: Vibhaktarthanirnaya
Author(s): Giridhar Upadhyay, Jivnath Mishr
Publisher: Babu Haridas Gupta
View full book text
________________
विभक्त्यर्थनिर्णये।
४७५ क्षमो विभक्त" इतिसूचेगा पञ्चम्युपपत्तेरित्यस्य प्रागुक्तत्वादिति । 'अधिरीश्वरे" इति सूत्रम् । ईश्वरेऽर्थे द्योत्येऽधि: कर्मप्रवचनीयसंज्ञः स्यादित्यर्थकम् अधौत्यव्ययशब्दस्य कर्मप्रवचनीयसंज्ञां विधत्ते । कर्मप्रवचनौययुक्तो पञ्चमी तापयति “यस्मादधिकं यस्य चेश्वरवचनं तव सप्तमौ” इति सूत्रं यदवधिकस्याधिक स्वरूपार्थस्य द्योतकः यन्निरूपितस्येश्वरार्थस्य द्योतक: कर्मप्रवचनौयस्तत्र कर्मप्रवचनीययुक्त सप्तमौ भवतीत्यर्थकम् । उपशब्दस्याधिकार्थद्योतकत्वेऽपि कर्मप्रवचनौयसंजाविधायक "उपोऽधिके चे" ति मूर्व हितीयाविवरणे प्रदर्शितम्। उपसुरेषु हरिरित्यादावुपशब्दद्योत्यं सप्तम्या आधिक्यमर्थस्तत्र प्रकृत्यर्थस्यावधिमत्वसंबन्धेनान्वयस्तथाविधस्याधिकारस्य हरावन्धयस्तथा च सुरावधिकाधिक्यवान् हरिरित्यस्वयबोधः । प्राधिक्यं तु प्रकृते निरवधिदयावत्वमथ वा बहुत्वव्याप्यसंख्याविशेषवगुणवत्वं बोध्यम् । उपाचार्येषु द्रोण इत्यादावपि काशिकोदाहरणोऽनया रीत्याइन्वयो बोध्या उपनिष्के कार्षापणमित्या दावपि मूल्यगतावयवगता वा बहुत्वव्याप्यसंख्येवाधिकामिति पन्चमीविवरणे प्रोक्तमिति । यस्य चेश्वर इत्येतावन्मावेण स्वामिद्योतकाधियोगे सप्तमौसिद्धी यस्य चेश्वरवचनमित्यभिधानं स्वस्वामिनोरुभयोर्योतकस्याधिशब्दस्ययोगे सप्तमौं ज्ञापयतिः अत एव यस्य चेश्वरवचनमिति सवस्वामिनोह योरपि पर्यायेण सप्तमौ भवतीति काशिका | अधिभुवि राम इत्यादावधिशब्दद्योत्यं सधन्याः स्वामित्वमर्थस्तव भुवो निरूपकतयाऽन्वयः तथाविधवामित्वस्य रामेऽन्वयः तथा च भूनिरूपि

Page Navigation
1 ... 483 484 485 486 487 488