Book Title: Vibhaktarthanirnaya
Author(s): Giridhar Upadhyay, Jivnath Mishr
Publisher: Babu Haridas Gupta
View full book text
________________
_ विभक्त्यर्थनिर्णये। प्रतियोगित्वयोरुभयोरपि नोपादानं व्यर्थत्वात् तादात्म्यस्यैवोपादानमिति वाच्यम् । तथा सति नराणां क्षत्रियः प्राणौतिप्रयोगप्रसङगान्नरतादात्म्यस्य प्राणिनि चलिये ऽपि सत्त्वात् तादात्म्यस्थानुपादाने घटानां क्षत्रियः शूरतम इत्यादिप्रयोगप्रसङ्गः क्षत्रियान्य घटरत्तिभेदस्य क्षत्रिये सत्त्वात् न च संख्यान्यसुबर्थस्य प्रकत्यर्थविशेष्यवनियमात् क्षत्रियान्यत्वादिस्वरूपस्य षयाद्यार्थस्य प्रकल्वर्थप्रकारवायोग इति वाच्यम् । संबोध्यवादेः प्रथमार्थस्य प्रकृत्यर्थे प्रकारत्वोपगमेन दर्शितनियमे व्यभिचाराद्दर्शितनियमस्य प्रायिकत्वात् । न च नराणां क्षत्रियो द्रव्यमिति प्रयोगः स्यात् क्षत्रियान्यनरत्वावच्छेदेन हित्वाद्यवच्छिन्न प्रतियोगिताकद्रव्यभदस्य सत्त्वादिति वाच्यम् । द्रव्यत्वादिविशिष्टे धर्मिणि द्रव्यत्वाद्यवच्छिन्नस्यैव भेदप्रतियोगित्वस्य बोधने निर्धारणविभक्तः समर्थत्वात् यद्यपि भेदः प्रतियोगित्वं च इयमेव निर्धारणविभतरों युज्यते तावतैवाभिमतनिर्वाहात् प्रतियोगितया क्षत्रियान्वितस्य. विशेषणतया नरोऽन्वयात्तथान्वितस्य नरस्य पुनर्भेदे प्रतियोगितयाऽन्वयात्तथान्वितस्य भेदस्य निरूपकतया प्रतियोगित्वे तथान्वितस्य प्रतियोगित्वस्य शरतमेऽन्वयसंभवात् तथापि क्षत्रियादे मार्थस्य स्वार्थकनामोत्तरविभक्त्यर्थं एव प्रकारतया भेदान्वयस्य व्युत्पन्नत्वात् नरादिनामान्तरोत्तरविभक्त्यर्थे तथा तदन्वयस्याव्युत्यन्नत्वात् न च नरस्य क्षत्रियः शरतम इत्यादि निर्धारणविभक्त्येकवचनप्रयोगः स्यादिति वाच्यम् । पाणि

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488