Book Title: Vibhaktarthanirnaya
Author(s): Giridhar Upadhyay, Jivnath Mishr
Publisher: Babu Haridas Gupta
View full book text
________________
विभक्त्यर्थनिर्णये ।
४४५ त्या दाविवान्वयोपपत्तिः सम्भवतीति गुरुचरगादर्शितरोतिः । वस्तुतस्तु शब्देना दुवार्थेनापि शब्दः स्मार्यते शब्दार्थयोरुभयो: सङ्केतसंबन्धेन संबन्धित्वाद् अत एवार्थ ज्ञात्वा अर्थेन तहाचकशब्दं स्मृत्वा वाक्यं प्रयुञ्जते प्रयोक्तारः तथा च यथा किं पचतिभवतीतिप्रश्ने वधपदर्शित कलायादौ कलायादिदर्शनेन कलायादिवाचक कलायादिपदं द्वितीयान्तं स्मृतवत: प्रष्टुः कलायं भवतोपचतौस्यन्वयबोधो भवति तथा भूशब्द स्वरूपणार्थन स्वरूपपरो भूशब्दः प्रथमातः स्मार्यते तेन तु भूशब्दस्वरूपोऽर्थः म्मायते तत्र भूशब्दे सङ्केतसंबन्धावच्छिन्नस्य सत्ताऽऽधेयत्वस्यान्वय इति न काऽप्यनुपपत्तिरिति यदि च वध पदर्शितकलायादौ कलायं पचतौति मानसोपनीतभानमेव तदा सत्ताऽधेयत्वस्य भूशब्दे मानसोपनीतभानमेवेति इयमेव रीति: चान्वाचय इत्यादी - चति पाकं करोतीत्यादिविवरणे च बोध्येति । एवं वाचकत्वार्थी सप्तमीति तान्त्रि कवाक्ये वाचकत्वशब्देन सङ्केतसंबन्धावच्छिन्नाधेयत्वमेव व्यपदिश्यते अतो वाचकत्वस्य सप्तम्यर्थत्वे अनुशासनविर हेऽपि न क्षतिः । द्राने वलिः काव्ये कालिदासस्तपसि धर्जटिरयमित्यादी बलिप्रभृतिपदानां वल्यादिसदृशे लक्षणा कतानिलपकसंबन्धावच्छिन्नं दानाद्याधेयत्वम् इदंपदार्थे पुंस्यन्वेति विशिष्टान्वयबलाहानवैशिष्ट्यमपि पुंसि प्रतीयते तथा . च वल्यादिसादृश्यं दानादिकं प्रतीयते अथ वा सप्तम्यन्त दानादिशब्दसमभिव्याहारबलाहानादिम्वरूपतादात्म्येन वल्यादिपदार्थानामिदंपदार्थे पुंस्यन्वयः यथा

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488